CBSE Class 12 Sanskrit लघुकथा-लेखनम्
          (क) प्रदत्त शब्दसूचीसाहाय्येन लघुकथा-लेखनम्
          
          प्रश्न:
          
          प्रदत्तशब्दसूचीसाहाय्येन अधोदत्तां लघुकथां पूरयित्वा उत्तरपुस्तिकायां पुनः लिखतु भवान् –
         
          1. वानर-सूचीमुख-कथा
          
          शब्दसूची – हेमन्ते। कम्पमानाः। वानराः। गुञ्जाफलानि। वह्नि-वाञ्छया। फूत्कुर्वन्ति। सूचीमुखः। वृथायासम्। अवदत्। एते न वह्नि-कणाः। गुञ्जाफलानि। वृथा। श्रमेण। वानराः किं तव। अनेन। पक्षी। भूयः। आह-गिरिकन्दरम् अन्विष्यताम्। न व्यरमत्। कुपितवानरेण पक्षी आस्फालितः।
          
          उत्तरम्:
          
          हेमन्ते शीतेन कम्पमानाः वानराः गुञ्जाफलानि अवचित्य वह्निवाञ्छया फूत्कुर्वन्ति। तत्रागतः सूचीमुखः नाम पक्षी तेषां तं वृथायासम् अवलोक्य अवदत्-“भोः मूर्खाः, एते न वह्निकणाः गुञ्जाफलानि एतानि, तत् किं वृथा श्रमेण?” वानरैः उक्तम्- “भोः मूर्ख! किं तव अनेन व्यापारेण? तद् गम्यताम्।” असौ पक्षी भूयोऽपि वानरान् अनवरतम् आह – ” भोः, किं वृथा क्लेशेन? एतस्मात् शीतरक्षा न भविष्यति। कश्चित् सुरक्षित: निर्वात: वनप्रदेशः, गुहा, गिरिकन्दरं वाऽन्विष्यताम्।” यावत् असौ सूचीमुखः कथमपि प्रलपन् न व्यरमत्, तावत् एकेन कुपितवानरेण पक्षाभ्यां गृहीत्वा शिलायाम् आस्फालितः मृतश्च।
         
          2. आत्मा एव मार्गदर्शकः गुरुः
          
          शब्दसूची – गुरुः। शिष्यम्। एकान्ते। पक्षिशावकम्। हन्तुम्। आदिशत्। एकः शिष्यः अमारयत्। अपरः अकथयत्। कुत्रापि एकान्तस्थानं न लभे। पर्वतादयः मां धिक्कुर्वन्ति। गुरुणा कथितम्। त्वम् आत्मनः वाणीं शृणोषि। त्वं ज्ञानधारणे समर्थः। आत्मा एव गुरुः।
          
          उत्तरम्:
          
          गुरुः शिष्यम् एकान्ते पक्षिशावकं हन्तुमादिशत् अपरः शिष्यः कुत्रापि एकान्तस्थानम् अप्राप्य गुरोः समक्षं जीवितं पक्षिशावकम् एव समर्थ्य न्यवेदयत्-अहं पक्षिहनने असमर्थः अस्मि। यतः कुत्रापि एकान्तस्थानं न लभे। क्वचित् जनाः सन्ति। यत्र जनाः न सन्ति तत्रे पशुपक्षिणः विद्यन्ते। यत्र तेऽपि न सन्ति तत्र वृक्षलताः निर्झराः पर्वतादयः च सन्ति – एते वाक्शक्तिरहिताः भूत्वा अपि शावकवधस्य दुष्कर्मणि निरतं मां धिक्कुर्वन्ति। यदि क्वचित् वृक्षलतादयः अपि न सन्ति तदा हृदयस्थः ममान्तरात्मा मन्दस्वरेण मां कथयति-यत् त्वं करोषि तदहं पश्यामि इति।। सर्वं श्रुत्वा गुरुणा कथितम्-त्वमेव ज्ञानधारणे समर्थः। वत्स, तव मन: शुद्धम्। शुद्धमनसा एव जनः यथार्थनिर्णयं कर्तुं शक्नोति। स आत्मनः वाणीं शृणोति। आत्मा एव सर्वस्य शाश्वत: मार्गदर्शकः गुरुः।
         
          3. सत्यभक्तः किरातः
          
          शब्दसूची – सत्यभक्तः किरातः। प्रभाते। प्रतिदिनम्। किरातः। मांसादिना। पूजाम् अकरोत्। ब्राह्मणाः अक्षिपन्। दिनत्रयम् अयं क्रयः। कुपितः। ब्राह्मणः। किरातम्। मारयितुम्। तत्परः। विचित्रा लीला। शिवलिङ्गस्य नेत्रात् रक्तम् प्रावहत्। किरातः स्वनेत्रं तत्र अयोजयत्। ब्राह्मणः किरातस्य पादयोः अपतत्।
          
          उत्तरम्:
          
          प्रभाते प्रतिदिनम् आगत्य किरात: पूर्ववत् मांसादिभिः पूजाम् अकरोत्। तदनन्तरं ब्राह्मणः आगत्य सर्वम् उत्थाप्य अक्षिपत्-अयं क्रमः दिनत्रयं यावत् अचलत्। अन्ततोगत्वा परमकुपितः ब्राह्मण: अचिन्तयत्-“अहं श्वः प्रभाते आगत्य अवश्यं तं धरिष्यामि यः नित्यं मन्दिरं मलिनं करोति, तथा च तं ताडयिष्यामि येन असौ ईदृशम् अकार्यम् कार्यं पुनः कदापि ने करिष्यति।” विचित्रा भगवल्लीला। आगामिनि दिने किरात: अपश्यत्-दिने शिवलिङ्गस्य नेत्रात् दक्षिणवामपाश्र्वाभ्यां रक्तम् प्रावहत्। किरातः, “भगवन्! नेत्रहीनस्त्वं कथं द्रक्ष्यसि” इति कथयित्वा शराग्रेण स्वनेत्रे उत्पाट्य शिवलिङ्गस्य रक्ताक्तस्थानयोः योजयति स्म। तद् दृष्ट्वा प्रसन्नो भूत्वा ब्राह्मणः किरातस्य पादयोः अपतत्। प्रभुकृपया किरातः पुनः दृष्टिं प्राप्नोत्। सत्यभक्तस्य तादृशं माहात्म्यं भवति।
         
          4. सचिवस्य ईश्वरनिष्ठा
          
          शब्दसूची – राज्ञः। अङ्गुली। छिन्ना। प्रभुभक्त: अकथयत्-सर्वभूतहितेरत परमेश्वरः यत्करोति शोभनमेव करोति। सचिवस्य पुत्रः मृत:। तदापि तदेव भक्तवाक्यम्। एकदा दस्युराज: बलिकार्याय। नृपम् सचिवम् अगृह्णात्। देव्यै अङ्गहीनस्य, अपुत्रस्य च बलिः न दीयते। अत: उभौ अत्यजत्। नृपः सचिवम् पुरस्करोति।
          
          उत्तरम्:
          
          एकदा राज्ञः अङ्गुली वृश्चनेन छिन्नाऽभवत्। तेन नृपः भूयसीं पीडाम् अन्वभवत्। सर्वे मन्त्रिणः आगत्य नृपाय सान्त्वनावचांसि अवदन्, परं प्रभुभक्तस्य सचिवस्ये मुखे तस्मिन्नवसरे अपि तदेव वाक्यम् आसीत्, सर्वभूतहिते रतः परमेश्वरः यत्करोति, शोभनमेव करोति’ इति। अस्य मन्त्रिणः तद्वचनम् आकर्त्य नृपः सचिवायाक्रुध्यत्। काले गते नृपस्य पीडा शान्ताऽभवत्। तदा सः सचिवम् अपृच्छत्। “हे सचिव! कथय, तव पुत्रः मृतः, मम चाङ्गुली छिन्ना, अत्र सर्वभूतहिते सः तव परमेश्वर: किं शोभनम् अकरोत्?” सचिव: शान्तभावेन नृपाय न्यवेदयत्-प्रश्नोऽयं समीचीनः, तथा च अस्य उत्तरमपि दातुम् अधुनाऽहं समर्थो नास्मि, किन्तु । कालान्तरे आवाम् तस्य कथनस्य सत्यताम् अवगमिष्याव:
         
          5. वीर बालकः अभिमन्युः
          
          शब्दसूची – अभिमन्युः निजबलेन। युद्धभूमिम् अगच्छत्। चक्रव्यूहस्य भेदने सफलः। अभिमन्योः सैनिकाः तत्र न प्राविशन्। सप्तमे प्रवेशद्वारे सप्तमहारथिनः मिलित्वा युगपद् आक्रमणम् अकरोत्। युद्धमर्यादा न पालिता। वीरगतिम् प्राप्तवान्। धन्या वीरभूमिः।
          
          उत्तरम्:
          
          अभिमन्युः निजबलेन सह युद्धभूमिम् अगच्छत्। सः एकाकी एव चक्रव्यूहस्य प्रवेशद्वारं भेदने सफलोऽभवत्, तस्य सैनिकेषु कोऽपि योद्धा अन्तः प्रवेष्टुं न समर्थः।। साहसी बालक: एकाकी एव षट् प्रवेशद्वाराणि त्रोटयित्वा चक्रव्यूहस्य अन्तः प्राविशत्। सप्तमे प्रवेशद्वारे तस्य सप्तमहारथिभिः सह घोर युद्धं जातम्। वीर बालकस्य अतुल्या बाणवृष्टिं दृष्ट्वा सर्वे महारथिन: मिलित्वा तस्योपरि युगपदेव आक्रमणम्। अकुर्वन्। एकत: एकाकी बालकः आसीत्, अपरत: युद्धकलानिष्णाताः सप्त महारथिन:! कुत्र गता युद्धमर्यादा? चिरकालं यावत् युद्धं कुर्वन् अन्तत: स: वीरः वीरगति प्राप्तः। धन्योऽयं वीरबालकः। धन्या चेयं वीरभूमिः यत्र एतादृशाः वीराः बारम्बार जायन्ते।
         
          6. पुनर्मूषको भव
          
          शब्दसूची – योगसिद्धिः। दयार्द्रः। विडालम्। कुक्कुरम्। कुक्कुरात्। सिंह। कृतवान्। सिंहः अचिन्तयत्-जनाः मम| अपकीर्ति कथयन्ति यावत् मुनिः जीवति। आक्रमणे तत्परः। मुनिः अशपत्-पुनः मूषकः भव।
          
          उत्तरम्:
          
          दयाद्रमुनिना योगसिद्धिना प्रथमं मूषक: विडालः कृतः, तदा कुक्कुरात् रक्षितुं विडालात् सः कुक्कुरः कृत। कुक्करो भूत्वा इतस्तत: निर्भयं परिभ्रमन् असौ सिंहेन दृष्टः। सिंहात् रक्षाम् इच्छन् कुक्करोऽयं मुनेः शरणं प्राप्तः। सिंहात् कुक्करस्य रक्षा कुर्वन् योगसिद्धः मुनिः कुक्कुरस्योपरि जल परिसिञ्चन् अवदत्- ‘सिंहो भव’। मुनौ एवम् वेदत्येव कुक्कुरः सिंहोऽभवत्। आश्चर्यम् आश्चर्यम्’ इति वदन्तः सर्वे मुनयः कथयन्ति स्म-‘धन्यः एषः योगसिद्धिः, यस्य कृपया मूषक: सिंहोऽभवत्।’ तत् श्रुत्वा कृतघ्नः सिंह: अचिन्तयत्-‘यावद् अयं मुनि: जीवति तावद् मम स्वरूपस्य अपकीर्तिः भविष्यति। अतोऽहं मुनि मारयित्वा कथं न निश्चिन्तो भवामि।’ एतद् विचार्य निजबलेन दृढं दृप्त: सिंह: मुनिं मारयितुम् आगतः। योगसिद्धिः सिंहस्य दुर्भावं ज्ञात्वा अशपत्-‘पुनर्मूषको भव’। मुनेर्वचनात् कृतघ्नः सिंहः पुनः मूषकोऽभवत्। विडाल: मूषकं दृष्ट्वा तं निजाहारम् अकरोत्।
         
          (ख) रिक्तस्थानपूर्ति-माध्यमेन लघुकथा-लेखनम्
          
          प्रश्न:
          
          अधोलिखितै: पदैः वाक्यानि प्रयूर्य कथा पुनः लिखत
         
          1. राज्ञः भोजस्य दर्शनाय सः कलिङ्देशम् …………. मासं यावत् तत्र व्यवसत्, परं सः राजानं नापश्यत्। तस्य …………….. अपि परिसमाप्तम्। ……….. नृपः …………… बहिर्निर्गत:। तदा कवि: राजानं ……………. अकथयत्-श्री भोजराजं पश्यन्नेव तत्क्षणं रिपोः शस्त्रं, कवेः कष्टं, मृगीदृशां नीवीबन्धः च भूमौ ………….. । तच्छ्रुत्वा राजा कवये ……………… ददौ यदा राजा मृगयासक्तः आसीत् तदा कश्चित् व्याधसुतः एक गीतम् अगायत्। गीतस्य । ………………….. प्रसन्न्नो भूत्वा राजा ……………… पञ्चलक्षं ……………. ।
          
          मञ्जूषा – मृगयाभावेन। पाथेयम्। दृष्ट्वा। माधुर्येण। गायकाय। लक्ष। ददौ। पतन्ति। उपेत्य। एकदा।
          
          उत्तर:
          
          उपेत्य। पाथेयम्। एकदा। मृगयाभावेन। दृष्ट्वा। पतन्ति। लक्षं। माधुर्येण। गायकाय। ददौ।
         
          2. कस्मिश्चिद् …………….. एकः साधुः प्रतिवसति स्म। स ……………. भिक्षायै नगरं गच्छति स्म। एकदा सः भिक्षायै एकं गृहम् अगच्छत् यत्र एका ……………. अवसत्। क्रोधात् सा विषाक्ताम् एकां रोटिकां तस्मै साधवे …………….। सः नीत्वा ……………। अन्यस्मिन् दिने …………… स्त्रियाः पुत्रः कस्माच्चित् नगरात् प्रत्यागच्छति स्म। सः बभुक्षितः आसीत्। अतएव कुटीरं गत्वा स: ……………… भोजनम् अयाचत्। साधुः तस्मै …………… प्रायच्छत्। भक्षणोपरान्तं स ……………… । यः यथा करोति स …………….. फलम् आप्नोति।
          
          मञ्जूषा – प्रतिदिनं। रोटिकां। तथैव। मृतः। साधु। तस्याः। अयच्छत्। अगच्छत्। वने। स्त्री।
          
          उत्तरम्:
          
          वने। प्रतिदिनं। स्त्री। अयच्छत्। अगच्छत्। तस्याः। साधुः। रोटिका। मृतः। तथैव।
         
          3. एकं महावनं कश्चित् …………….. अधिवसति स्म। एकदा तद्देशाधिपः तद् वन-मार्गेण गतः। तेन ………….. भूपतिः भणित:-पूर्वं न सत्कृतः, न ईषद् अपि सादरम् …………….. वा। तस्मात् स नृपः आत्मनः …………………. अवदत्-अयं संन्यासी मम मतेन साक्षात् पशुः, यतः सः शिष्टाचाराद् …………… । सचिवः तमुपेत्य उवाच-गतस्य राज्ञः ………………….. कथं त्वया सप्रश्रयं प्रणामो न कृतः? अतः त्वं ……………………. मे भासि। इदमाकर्त्य स प्रत्यवदत्-ये नृप-प्रसादनोत्सुकाः ते एव नृपं …………….. तद्गत …………….. वदन्ति, तं परितः लांगूल-चालनं कुर्वन्ति चेति मद्-वचनात् स राजा ………………… ।
          
          मञ्जूषा – प्रमत्तः। स्तुवन्ति। वाच्यताम्। त्वत्पाश्र्वेन। अनभिज्ञः। ईक्षितः। संन्यासी। यतिना। चाटुवचनानि।।
          
          उत्तरम्:
          
          संन्यासी। यतिना। ईक्षितः। सचिवम्। अनभिज्ञः। तवत्पार्वेन। प्रमत्तः। स्तुवन्ति। चाटुवचनानि। वाच्यताम्।
         
          4. कस्मिश्चिद् वने एकस्मात् …………….. अधः एकः सिंहो निद्रया ……………….. आसीत्। तस्य केसराणाम् उपरि …………….. मूषकोऽनृत्यत्। सिंहः प्रबुद्धोऽभवत् मूषकं च यदा ” प्रावर्तत तदा मूषको न्यवेदयत्- “ भवान् मृगराजोऽस्ति , मां …………………. प्रति दयां कुरु।” सिंहस्तं …………….. । एकदा स एव सिंहः कस्मिश्चिद् …………………. आपतितः। मूषकः प्रत्यकारत्वेन जालम् अकृन्तत्। सिंहो ………………… प्रशंसन् गतः। सत्यमिदं यत् केनापि ………………… कृतः उपकारो ……………. न भवति।
          
          मञ्जूषा – सह। मूषकं। निरर्थकः। दीनं। जाले। परिभूतः। वृक्षात्। हन्तुम्। मुक्तवान्। कश्चित्।
          
          उत्तरम्:
          
          वृक्षात्। परिभूतः। कश्चित्। हन्तुम्। दीनं। मुक्तवान्। जाले। मूषकं। सह। निरर्थकः।।
         
          5. ……………… कश्चित् नृपः ……………..: सह पोतोपविष्टः आसीत्। जन्मनः ……………….. नैकवारमपि तेन । जल-प्रवासः कृतो न वा तस्य किमपि ……………….. आसीत्। जलयानम् आरुढमात्रः स मुक्तकण्ठं …………… आरभत। तस्य अनेन आक्रन्दनेन सर्वे …………… आसन्। तस्मिन् …………….. निषण्णानां जनाना मध्ये एकः चतुरः ………………. आसीत्। सोऽब्रवीत्-भवद्-अनुज्ञया ……………. सान्त्वयामि। तेऽब्रुवन्-यदि भवान् तथा करोति तर्हि अस्मासु महद् ……………. भवेदिति।
          
          मञ्जूषा – अनुग्रहः। प्रभृति। दासेन। रोदितुम्। जलयाने। एकदा। अहम्। भयभीताः। नौर्जानम्। चिकित्सकः।
          
          उत्तरम्:
          
          एकदा। दासेन। प्रभृति। नौर्शनम्। रोदितुम्। भयभीताः। जलयाने। चिकित्सकः। अहम्। अनुग्रहः।
         
          6. शीतकाले सम्प्राप्ते पृथ्वी हिमेन ……………………. अभवत्। सर्वे ……………… विहगाः वृक्षे निलीय समुपविष्टाः। असौ …………….. वराक: घासवल्गी क्षुधापीडितो जातः। हताशो म्रियमाणश्चासौ पिपीलिकाम् …………….. पिपीलिका तस्य ……………….. दशां दृष्ट्वा व्यचिन्तयत्-अयं ………………. अधुना मम साहाय्यं याचितुम् आयातः। सा तमपृच्छत् – “बन्धो! कुत: आयाति भवान्? सुखिनस्तव किं जातम्? हे सखे! तव दुर्दशां दृष्ट्वा मम भृशं दु:खं भवति। ……………… वचनं श्रुत्वा करबद्धः स घासवल्गी अकथयत् भद्रे! क्षमस्व। कृपया क्षुधिते मयि ……………. सा पिपीलिका अवदत्-“मित्र! अस्मिन् वारे तु अहं। …………………. क्षमे। भविष्ये मैवम् आचर।” इति कथयित्वा सा तस्मै ……………….. प्रायच्छ त्।
          
          मजूषा – पिपीलिकायाः। दीनहीनां। वल्गी। शीतकातराः। आच्छादिता। उपागमत्। भोजनं। दयस्व। अलसः। त्वां।
          
          उत्तरम्:
          
          आच्छादिता शीतकातराः। अलसः। उपागमत्। दीनहीनां। वल्गी। पिपीलिकायाः। दयस्व। त्वां। भोजनं।
         
           अभ्यासार्थ
          
          1. अधोलिखिताः लघुकथाः पठित्वा मञ्जूषावाञ्च सहायतया रिक्तस्थानां पूर्तिं करोतु भवान्। (1/2 x 10 = 5)
          
          (क) रामायणे इदं वर्णितं यत् एकदा स्व (i) …………… जनकपुत्री सीता शृङ्गारम् अकरोत्। सा षोडशशृङ्गारं कृत्वा स्वशिरसि सौभाग्यचिह्नं सिन्दूरम् अरचयत्। एतद् दृष्ट्वा श्रीहनुमान् (ii) …………….. अपृच्छत्“मातः। भवती कथं (iii) ……………… स्वमस्तके सिन्दूरं रचयति।” माता सीता अवदत्-“प्रियवर! अनेन (iv) स्वामिनः आयुः (v) …………… सः प्रसीदति अपि। अतः अहम् एवं करोमि।” एतच्छुत्वा हनुमान् ततः (vi) …………… । एकस्मिन् दिवसे श्रीहनुमान् सम्पूर्ण शरीरे (ii) …………… लिम्पित्वा राजसभाम् आगच्छत्। तदा तस्य रक्तवर्ण (viii) …………… दृष्ट्वा सर्वे जनाः अहसन्। कारणं पृष्टे सति हनुमान् अवदत्-“माता अवदत्-सिन्दूरेण स्वामिनः प्रसन्नता आयुश्च वर्धेते, अतः अहमपि तेन कारणेन एव (ix) …………….. शरीरे सिन्दूरम् अलिम्पम्।” एतच्छुत्वा (x) ……………….. प्रसन्नः भूत्वा तस्य अलिङ्गनम् अकरोत्।
         
True
True
True
True
True
True
(i) ............... (ii) ............... (iv) ............... , , , (vi) ............... (vi) ............... (vi) ...............
True
True
True
, , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , , ,
True
(i) ................. (ii) .............. (iv) .............. (vi).............. : ! (x) ..............
True
True
 
 
 
 
