CBSE Class 12 Sanskrit अपठितांशावबोधनम्
आवश्यक निर्देशनम् :
- अस्मिन् खण्डे केवलमेकस्मिन् एव गद्यांशे आधारितानि प्रश्नानि भविष्यन्ति।
- प्रश्नानामुत्तराणि अनुच्छेदे एव भविष्यन्ति।
- तस्मादेव उपयुक्तं शब्दं वाक्यं वा नीत्वा उत्तराणि दातव्यानि!
- ‘एकपदेन उत्तरत’ इत्यस्य प्रश्नस्य उत्तरं केवलं एकेनैव शब्देन दातव्यम्। द्वाभ्यां त्रिभिः वा शब्दैः न।
- अनेनैव प्रकारेण ‘पूर्णवाक्येन उत्तरत’ इत्यस्य प्रश्नस्य उत्तरम् एकेन पूर्णवाक्येन एव दातव्यम् एकेन पदेन न।
- ‘शीर्षको लिख्यताम्’ इत्यस्य प्रश्नस्य उत्तरं विचिन्त्य एव दातव्यम्। यतः शीर्षक: सम्पूर्णानुच्छेदस्य प्रतिबिम्बं भवति। शीर्षक दृष्ट्वा अनुच्छेदस्य सरलतया ज्ञानं भवति। अतः शीर्षको सरल: संक्षिप्तः समुचितश्च भवेत् अतिदीर्घ वाक्यं शीर्षकरूपे न प्रयोक्तव्यम्।
अधोलिखितं गद्यांशम् आधृत्य प्रश्नान् उत्तरत –
1. व्यायामस्य अनेकविधता प्रत्यक्षं दृश्यते। तयोः एका पौरस्त्या अपरा च पाश्चात्या। पौरस्त्यः व्यायामः प्रायेण बाह्यसाधनानि न्यूनात् न्यूनम् अपेक्षते। योगव्यायामः अद्वितीया विधा। एतस्यां विधायां पर:शतानाम् आसनानाम् उपयोगः भवति। आसनैः शरीरस्य आमूलचूलं सम्यग् व्यायामो जायते। योगासनेन सह प्राणायामस्य अपि सम्बन्धो वर्तते। सम्यग् व्यायामेन रुधिरस्य समयक् अनिरुद्धश्च सञ्चारो जायेते। तेन च सर्वाणि इन्द्रियाणि स्वस्थान तिष्ठन्ति। कार्ये कुशलता जायते। ‘योग:कर्मसु कौशलम्’ इति। योगेन बुद्धिः अप्रतिहता तिष्ठति। उदरं न परिवर्धते। परिवृद्धम् उदरं संकोचं गच्छति। उरसि शक्तिः स्फुरता च जायते। स्कन्धद्वयं दृढं पुष्टं सशक्तं च भवति। चक्षुः स्फारीभवति। मस्तिष्कम् उर्वरं तिष्ठति। कबड्डी, खो-खो, धावनम्, मल्लयुद्धम्, मल्लस्तम्भम्, दण्डचालनम् इत्यादयः विविधाः पौरस्त्याः व्यायामाः सन्ति। एभिः व्यायामैः विनाधिकं व्ययं अधि काधिकं फलम् अस्ति।
          I. एकपदेन उत्तरत (1/2 x 4 = 2)
          
          (i) व्यायामेन कार्ये किं जायते?
          
          (ii) व्यायामेन कीदृशम् उदरं संकोचं गच्छति?
          
          (iii) व्यायामेन मस्तिष्कं कीदृशं भवति?
          
          (iv) केन बुद्धिः अप्रतिहता तिष्ठति?
          
          उत्तर:
          
          (i) कुशलता
          
          (ii) परिवृद्धम्
          
          (iii) उर्वरं
          
          (iv) व्यायामेन।
         
          II. पूर्णवाक्येन उत्तरत (1 x 2 = 2)
          
          (i) कैः व्यायामै: विनाधिकं व्ययं अधिकाधिकं फलम् अस्ति?
          
          (ii) कैः शरीरस्य आमूलचूलं सम्यग् व्यायामो जायते?
          
          उत्तर:
          
          (i) पौरस्त्यै: व्यायामैः विनाधिकं व्ययं अधिकाधिकं फलम् अस्ति।
          
          (ii) आसनै: शरीरस्य आमूलचूलं सम्यग् व्यायामो जायते।।
         
          III. “एतस्यां विधायाम्’, अत्र ‘एतस्यां’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
          
          उत्तर:
          
          योगव्यायामाय।
         
          IV. ‘अपेक्षते’ इति क्रियापदस्य कर्तृपदम् अवचित्य लिखत।
          
          उत्तर:
          
          पौरस्त्यः व्यायामः
         
          V. (i) आसनानाम्’ इति पदस्य अत्र किं विशेषणं प्रयुक्तम्?
          
          (ii) “रक्तस्य’ इति अर्थे अत्र किं पर्यायपदं प्रयुक्तम्।
          
          उत्तर:
          
          (i) पर:शतानाम्
          
          (ii) रुधिरस्य
         
          VI. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
          
          उत्तर:
          
          व्यायामस्य लाभा:/व्यायामस्य महत्त्वम्।
         
2. ‘कबड्डी’ इति क्रीडा श्वासावरोधक्रीडा वर्तते। ये क्रीडका: श्वासावरोधने दक्षाः ते अस्याम् अतीव निपुणाः सन्ति। अस्यां क्रीडायां दलद्वयम् वर्तते। क्रीडाक्षेत्रं सीमितं वर्तते। समस्तं क्रीडाक्षेत्रं द्वयोः समानभागयो: विभक्तं वर्तते। द्वयोः भागयो: मध्ये स्थिता ‘पाला’ नाम्नी रेखा वर्तते। अस्याः रेखाया: अग्रतः द्वयोः पक्षयोः पार-रेखा-द्वयं वर्तते। प्रतिदलं प्रायेण नव-नव क्रीडकाः भवन्ति। कदाचित् एतेषां क्रीड़कानां संख्या प्रत्येकं भागे एकादश एव वर्तते। यदा इयं क्रीडा प्रारभ्यते तदा एकभागस्य एकः क्रीडकः द्वितीयभागस्य क्रीडकानाम् अग्रे ‘कबड्डी-कबड्डी’ इति वदन् गच्छति तेषु च एकम् एकाधिकं वा क्रीडकं स्पृष्ट्वा प्रत्यावर्तते। पुनः श्वासग्रहणं विनैव सः तान् स्पृष्ट्वा मध्यरेखां यावत् प्रत्यागच्छति। द्वितीयभागस्य क्रीडकाः तं ग्रहीतुं यतन्ते परं सः तेभ्यः आत्मानं रक्षित्वा स्वदलं प्रत्यावर्तते। सः यान्-यान् स्पृशति ते उपविशन्ति, तत्कारणात् च तेषाम् अंकहानिः अपि भवति। यदि श्वासावरोधकः क्रीडकः द्वितीयपक्षस्य क्रीडकैः गृह्यते तदा स: क्रीडकः एव उपविशति स्वदलस्य अंकहानिं च करोति। तदनन्तरं द्वितीयपक्षस्य क्रीडकः तादृशमेव करोति। एवं निश्चितकालावधि क्रीडन्तः यस्य पक्षस्य क्रीडका: अधिकम् अंकं प्राप्नुवन्ति असौ पक्षः विजयी भवति।।
          I. एकपदेन उत्तरत (4 x 4 = 2)
          
          (i) मध्यरेखायाः अग्रत: द्वयोः पक्षयोः किं वर्तते?
          
          (ii) प्रत्येकं भागे क्रीडकानां संख्या कति वर्तते।
          
          (iii) कस्यां क्रीडायां दलद्वयं वर्तते?
          
          (iv) क्रीडक: किं वदन् द्वितीयभागस्य क्रीडकानाम् अग्रे गच्छति?
          
          उत्तर:
          
          (i) पाररेखाद्वयम्
          
          (ii) नव
          
          (iii) कबड्डी-क्रीडायम्
          
          (iv) ‘कबड्डी कबड्डी’ इति।
         
          II. पूर्णवाक्येन उत्तरत (1 x 2 = 2)
          
          (i) नवक्रीडकानां स्थाने कदाचित् कति क्रीडका: प्रत्येक भागे क्रीडन्ति?
          
          (ii) कः पक्षः विजयी भवति?
          
          उत्तर:
          
          (i) नवक्रीडंकानां स्थाने कदाचित् प्रत्येकं भागे एकादश क्रीडकाः क्रीडन्ति।
          
          (ii) निश्चितकालावधि क्रीडन्तः यस्य पक्षस्य क्रीडकाः अधिकान् अङ्कान् प्राप्नुवन्ति असौ पक्ष: विजयी भवति। 12 संस्कृत (केन्द्रिक) –
         
          III. सः तान् स्पृष्ट्वा , अत्र ‘तान्’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
          
          उत्तर:
          
          द्वितीयभागस्य क्रीडकेभ्यः।
         
          IV. ‘उपविशन्ति’ क्रियापदस्य कर्तृपदं लिखत।
          
          उत्तर:
          
          ते
         
          V. (i) ‘श्वासावरोधकः’ इति पदस्य अत्र किं विशेष्यपदं प्रयुक्तम्?
          
          (ii) ‘असीमितम्’ इति पदस्य अत्रे किं विलोमपदं प्रयुक्तम्।
          
          उत्तर:
          
          (i) क्रीडकः
          
          (ii) सीमितम्
         
          VI. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
          
          उत्तर:
          
          कबड्डी क्रीडा।
         
3. किमिदम् अनुशासनम् इति। शासन-पदस्य अर्थः ‘आज्ञा’ इति। अनुशासनपदस्य अर्थः ‘आज्ञा-पालनम्’ इति। आज्ञापालनम्, नियम-पालनम् इत्यादयः गुणाः अनुशासने समायान्ति। वयं भारतीयाः स्वतन्त्र-राष्ट्रस्य नागरिकाः स्मः। अस्माकम् एकं संविधानम् अस्ति। तत्र नागरिकैः अनुवर्तनीयाः बहवः नियमाः सन्ति। अनुशासितनागरिकस्य इदं कर्तव्यम् अस्ति यत् सः स्व-संविधाने स्वीकृतान् नियमान् पालयतु। यदि सः तथा करोति तदा तस्य देश: समुन्नतिं करोति, नागरिक-जनानां जीवन सुखमयं भवति। तेन तस्यापि जीवनं सुखम् आवहति। यदि सः अनुशासनहीनता प्रदर्शयति, यानि कार्याणि आरक्षिजनैः करणीयानि तानि सः स्वयमेव कर्तुम् उत्सहते, तदा राष्ट्रजीवनम् संकटोपपन्नं जायते। ईदृशम् अवसरम् प्रतीक्षमाणाः शत्रवः स्वपक्षे तस्य लाभ प्राप्नुवन्ति।
          I. एकपदेन उत्तरत (4 x 4 = 2)
          
          (i) अनुशासनपदस्य अर्थः कः?
          
          (ii) नागरिकैः अनुवर्तनीयाः नियमाः कुत्र सन्ति?
          
          (iii) केन सर्वेषां जीवन सुखमयं भवति?
          
          (iv) के स्वपक्षे नागरिकाणाम् अनुशासनहीनतायाः लाभं प्राप्नुवन्ति?
          
          उत्तर:
          
          (i) आज्ञापालनम्
          
          (ii) संविधाने
          
          (iii) अनुशासनेन
          
          (iv) शत्रवः
         
          II. पूर्णवाक्येन उत्तरत (1 x 2 = 2)
          
          (i) अनुशासने के गुणा: समायान्ति?
          
          (ii) अनुशासितनागरिकस्य किं कर्त्तव्यम् अस्ति?
          
          उत्तर:
          
          (i) आज्ञापालनम्, नियमपालनम् इत्यादयः गुणाः अनुशासने समायान्ति।।
          
          (ii) अनुशासितनागरिकस्य इदं कर्त्तव्यम् अस्ति यत् स: स्व-संविधाने स्वीकृतान् नियमान् पालयतु।
         
          III. ‘अस्माकम् एकम्’, अत्र ‘अस्माकम्’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
          
          उत्तर:
          
          स्वतन्त्रराष्ट्रस्य नागरिकेभ्यः।
         
          IV. ‘प्राप्नुवन्ति’ क्रियापदस्य कर्तृपदम् अवचित्य लिखत।
          
          उत्तर:
          
          शत्रवः
         
          V. (i) संकटग्रस्तम्’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्?
          
          (ii) ‘अवनतिम्’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्।
          
          उत्तर:
          
          (i) संकटोपपन्नम्
          
          (ii) समुन्नतिम्
         
          VI. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
          
          उत्तर:
          
          अनुशासनस्य महत्त्वम् अथवा राष्ट्रजीवने अनुशासनस्य महत्त्वम्।
         
4. ‘हर की बैडी’ इति स्थाने स्नानार्थम् सहस्रशः जनाः पंक्तिबद्धाः एकैकशः कृत्वा शनैः-शनैः अग्रे गच्छन्तः प्रसिद्ध गंगामन्दिरनिकटस्थां स्नानभूमिं गच्छन्ति स्म। अहमपि होरानन्तरं तत्स्थानं गतः। अत्र श्रद्धालवः पूजा-पिण्डदान-स्नान-मन्त्रपाठादिषु धार्मिककृत्येषु व्यापृताः तिष्ठन्त: कुम्भपर्वणः पुण्यम् अर्जयन्ति स्म। मयाऽत्र पञ्चदशपलेभ्यो वेदपाठं विधाय स्नानं कृतम्। ततोऽहं ‘सप्तर्षिमन्दिरम्’ इति स्थानम् उपगम्य ऋषीणां मूर्तिदर्शनं कुर्वन् भित्तिषु लिखितान् श्लोकान् मन्त्रांश्च पठन् अभिनन्दन् च गीता-मन्दिरम् उपागतः। तत्पश्चादहं, नृसिंहमन्दिरं प्रयातः। अत्र नृसिंहावतारस्य विशालं चित्रं तविषयिकी कला च भित्तिषु अंकिता दृष्टा। गंगामन्दिरे श्रीगंगामातुः धवलधारं चित्रम् अतीव रम्यम् आसीत्। अत्रापि ‘गंगालहरी’ इत्याख्या स्तुतिः मन्दिरभित्तिषु लब्धा। हरिद्वारे अन्यानि अपि तीर्थस्थलानि मन्दिराणि च मया दृष्टानि। सर्वत्र यात्रिणां पवित्रभावान् दृष्ट्वा मम मन: पुलकितं जातम्।
          I. एकपदेन उत्तरत (4 x 4 = 2)
          
          (i) श्रीगंगामातुः धवलधारं चित्रं कुत्रास्ति?
          
          (ii) गंगालहरी’ इत्याख्या स्तुतिः कुत्र वर्तते? .
          
          (iii) सप्तर्षिमन्दिरे केषां मूर्तीनां दर्शनं भवति?
          
          (iv) ‘हर की पैडी’ इति स्थानं कुत्र वर्तते?
          
          उत्तर:
          
          (i) गंगामन्दिरे
          
          (ii) मन्दिरभित्तिषु
          
          (ii) ऋषीणां
          
          (iv) हरिद्वारे।
         
          II. पूर्णवाक्येन उत्तरत (1 x 2 = 2)
          
          (i) किं दृष्ट्वा मम मनः पुलकितं जातम्?
          
          (i) नरसिंहमन्दिरे किं दर्शनीयम् अस्ति?
          
          उत्तर:
          
          (i) सर्वत्र यात्रिणां पवित्रभावान् दृष्ट्वा मम मनः पुलकितं जातम्।
          
          (ii) नरसिंहमन्दिरे नृसिंहावतारस्य विशालं चित्रं, भित्तिषु च तद्विषयिकी कला दर्शनीया अस्ति।
         
          III. ‘तत्स्थानं गतः’, इति अत्र ‘तत्स्थानम्’ इति पदं कस्मै प्रयुक्तम्?
          
          उत्तर:
          
          ‘हर की पैडी’ इति स्थानाय।
         
          IV. ‘लब्धा’ क्रियापदस्य कर्तृपदम् अवचित्य लिखत।
          
          उत्तर:
          
          स्तुतिः
         
          v. (i) ‘स्नानभूमिम्’ इति पदस्य अत्र किं विशेषणपदं प्रयुक्तम्?
          
          (ii) ‘रोमाञ्चितम्’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्।
          
          उत्तर:
          
          (i) प्रसिद्धाम्
          
          (ii) पुलकितम्
         
          VI. अस्य अनुच्छेदस्य कृते समुचितं पदं लिखत।
          
          उत्तर:
          
          हरिद्वारस्य दर्शनीयस्थानानि अथवा मम हरिद्वारयात्रा।
         
5. नागरिकाः अनुशासनस्य शिक्षा बाल्यावस्थायां, विशेषतः छात्रावस्थायामेव, ग्रहीतुं पारयन्ति। परम् अधुना छात्रजीवनम् अपि विषमं जायते। शिक्षाक्षेत्रे राजनीते: अनुचितः हस्तक्षेपः जायते। न केवलं विरोधपक्षेन एव छात्राणाम् स्वपक्षे उपयोगः क्रियते अपितु शासकदलेन अपि स्वसत्तां स्थिरीकरणाय छात्राणाम् उपयोगः क्रियते। तदा छात्राणां सम्मुखे विद्यार्जनं प्रमुखम् उद्दिष्टं न भवति। अधुना राजनीतौ स्वार्थः प्रबल: अस्ति, ते छात्राः येन केन प्रकारेण तस्यां स्वकीयं स्थानं निर्धारयितुं स्वकीयं कालं यापयन्ति। यद्यपि ईदृशानां छात्राणां संख्या स्वल्पा वर्तते तथापि ते अन्यछात्राणां मार्गे बाधाम् उपस्थापयन्ति। शासनस्य इदं कर्तव्यम् अस्ति यत् स्वदलस्य मोहं परित्यज्य विद्यार्थिनां सम्मुखे स्वकर्तव्यपरायणतायाः आदर्श समुपस्थापयेत् तदैव छात्राणां अनुशासनस्य शिक्षा प्रदेया भविष्यति।
          I. एकपदेन उत्तरत (4 x 4 = 2)
          
          (i) अधुना छात्रजीवन कीदृशं जायते?
          
          (ii) शासकलेन विरोधपक्षेन च केषाम् उपयोगः क्रियते?
          
          (iii) शिक्षाक्षेत्रे कस्याः अनुचित: हस्तक्षेपः जायते?
          
          (iv) कस्मिन् क्षेत्रे राजनीते: अनुचित: हस्तक्षेपः जायते?
          
          उत्तर:
          
          (i) विषमम्
          
          (ii) छात्राणाम्
          
          (iii) राजनीते:
          
          (iv) शिक्षाक्षेत्रे
         
          II. पूर्णवाक्येन उत्तरत (1 x 2 = 2)
          
          (i) अन्यछात्राणां मार्गे के बाधाम् उपस्थापयन्ति?
          
          (ii) के छात्रा: राजनीतौ स्थानं निर्धारयितुं कालं यापयन्ति?
          
          उत्तर:
          
          (i) अन्यछात्राणां मार्गे ते छात्रा: बाधाम् उपस्थापयन्ति ये राजनीतौ स्थानं निर्धारयितुं विद्यालयेषु स्वकीयं कालं यापयन्ति।
          
          (ii) येषाम् छात्राणां सम्मुखे प्रमुखम् उद्दिष्टं विद्यार्जनं न भवति ते राजनीतौ स्थानं निर्धारयितुं कालं यापयन्ति।
         
          III. ‘तस्याम्’ इदं सर्वनामपदं कस्य कृते प्रयुक्तम्?
          
          उत्तर:
          
          ‘राजनीतौ’ पदस्य कृते।
         
          IV. यापयन्ति’ इति क्रियापदस्य कर्तृपदं लिखत।
          
          उत्तर:
          
          छात्राः
         
          V. (i) ‘स्वकीयं स्थानम्’ इति अनयोः पदयोः अत्र किं विशेषणम् अस्ति?
          
          (ii) ‘अदेया’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्।
          
          उत्तर:
          
          (i) स्वकीयम्।
          
          (ii) प्रदेया .
         
          VI. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
          
          उत्तर:
          
          छात्रजीवने अनुशासनम् अथवा किं छात्राणां राजनीत्या भागग्रहणम् उचितम्?
         
6. भारतस्य राजधानी नवदिल्ली इति ख्याता। अस्याः प्राचीनतमं नाम ‘इन्द्रप्रस्थम्’ इति आसीत्। यथा शरीरस्य मध्यभागे हृदये आत्मा तिष्ठति तथैव भारतदेशस्य मध्यमो भागः स एव यत्र ‘देहली’ इति नाम्ना ख्याता विशाला नगरी वर्तते। ‘देहली’ इति नाम ‘ढिल्लिका’ इति नाम्नः अपभ्रंशरूपः वर्तते। देहली नगरे भारतस्य विविध-प्रदेश-वास्तव्याः जनाः सुगमतया द्रष्टुं शक्यन्ते। अत्र चाणक्यपुर्यां अन्येषामपि राष्ट्राणां राजदूतनिवासानि सन्ति। देहलीमध्ये सर्वकारस्य केन्द्रीयशासनस्य अनेके कार्यालयाः तिष्ठन्ति। तत्र बहुभूमिकानि भवनानि सत्यमेव दर्शनीयानि। एतेषु भवनेषु लोकसभा-भवनम्, राज्यसभा-भवनम् राष्ट्रपतिनिवासश्च दर्शनीयानि सन्ति। भारतस्य प्रधानमन्त्री, अन्ये च केन्द्रीय-मन्त्रिणः अपि अस्मिन् नगरे वसन्ति।
          I. एकपदेन उत्तरत (1/2 x 4 = 2)
          
          (i) भारतस्य राजधानी का?
          
          (ii) नवदिल्ल्या : प्राचीनतमं नाम किम्?
          
          (iii) शरीरस्य मध्यभागे कः तिष्ठति?
          
          (iv) ‘देहली’ इति नाम कस्य पदस्य अपभ्रंशः?
          
          उत्तर:
          
          (i) नवदिल्ली
          
          (ii) इन्द्रप्रस्थम्
          
          (iii) आत्मा
          
          (iv) ‘ढिल्लिका’ (इति पदस्य)
         
          II. पूर्णवाक्येन उत्तरत (1 x 2 = 2)
          
          (i) भारतस्य प्रधानमन्त्री अन्ये च केन्द्रीय-मन्त्रिणः कुत्र वसन्ति?
          
          (ii) नवदिल्ल्यां कानि भवनानि दर्शनीयानि सन्ति?
          
          उत्तर:
          
          (i) भारतस्य प्रधानमन्त्री अन्ये च केन्द्रीयमन्त्रिणः नवदिल्ल्यां वसन्ति।
          
          (ii) नवदिल्ल्यां लोकसभाभवनं, राज्यसभाभवनं, राष्ट्रपतिनिवासश्च इति भवनानि दर्शनीयानि सन्ति।
         
          III. ‘स एव’, अत्र ‘सः’ इति पदं कस्मै प्रयुक्तम्?
          
          उत्तर:
          
          भारतदेशस्य मध्यमभागाय।
         
          IV. ‘सन्ति’ इति क्रियापदस्य कर्तृपदं लिखत।
          
          उत्तर:
          
          लोकसभाभवनं, राजसभाभवनं, राष्ट्रपतिनिवासश्च।
         
          V. (i) ‘एषु’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्?
          
          (ii) ‘असत्यमेव’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्।
          
          उत्तर:
          
          (i) एतेषु
          
          (ii) सत्यमेव
         
          VI. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
          
          उत्तर:
          
          नवदिल्ल्याः दर्शनीयस्थलानि।
         
7. वेदेषु मन्त्रद्रष्टारो यथा पुरुषाः आसन् तथैव काश्चन नार्योऽपि अभवन्। ब्रह्मवादिन्यः मैत्रेयीगार्गीसमाः अनेकाः स्त्रियो भारतेऽभवन्। मण्डनमिश्रस्य पत्नी भामती स्वयं परमविदुषी आसीत्। कालिदासस्य पत्नी विद्योत्तमा पण्डिता इति प्रसिद्ध एव। अतो भारतस्य वैदिकपरम्पराम् अनुरुध्य स्त्रीशिक्षा पुरुषशिक्षा इव अनिवार्या। नारीशिक्षा नारीपूजैव। यत्र चे नारीपूजा तत्र देवतानां वास इति इदं यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः’ इत्यनेन श्लोकखण्डेन सुतरां प्रतिपादितम्। शिक्षिता नारी शिक्षिता माता, भगिनी, पुत्री च। सा च स्वपरिवारस्य महते कल्याणाय यथा कल्पते न च तथा अशिक्षिता नारी। सा हि शिक्षितपुरुषस्येव समाजस्यापि अलक्रिया। शिक्षितया स्त्रिया समाजः स्वस्थः पुष्टः विकासोन्मुखश्च जायते। तस्मात् निजस्त्रीधनस्य रक्षापराः तिष्ठन्तो वयं तासां शिक्षाविषये अपि अप्रमत्ता: तिष्ठेम इत्येव साधुः।।
          I. एकपदेन उत्तरत (4 x 4 = 2)
          
          (i) वेदेषु कीदृशाः पुरुषाः आसन्?
          
          (ii) केस्य पत्नी परमविदुषी आसीत्?
          
          (iii) यत्र नार्यः पूज्यन्ते तत्र के रमन्ते?
          
          (iv) कीदृशी नारी परिवारस्य महते कल्याणार्य कल्पते?
          
          उत्तर:
          
          (i) मन्त्रद्रष्टारः
          
          (ii) मण्डनमिश्रस्य
          
          (iii) देवताः
          
          (iv) शिक्षिता
         
          II. पूर्णवाक्येन उत्तरत (1 x 2 = 2)
          
          (i) शिक्षितपुरुषस्येव समाजस्य का अलंक्रिया?
          
          (ii) शिक्षितया स्त्रिया समाजः कीदृशः जायते?
          
          उत्तर:
          
          (i) शिक्षितपुरुषस्येव शिक्षिता नारी अपि समाजस्य अलक्रिया।
          
          (ii) शिक्षितया स्त्रिया समाज: स्वस्थ: पुष्ट: विकासोन्मुखश्च जायते।
         
          III. ‘सा हि’, अत्र ‘सा’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
          
          उत्तर:
          
          शिक्षितनायें।
         
          IV. ‘तिष्ठेम’ इति क्रियापदस्य कर्तृपदं लिखत।
          
          उत्तर:
          
          वयम्
         
          V. (i) ‘कल्याणाय’ इति पदस्य अत्र किं विशेषणं प्रयुक्तम्?
          
          (ii) ‘अस्वस्थः’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्।
          
          उत्तर:
          
          (i) महते
          
          (ii) स्वस्थः
         
          VI. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
          
          उत्तर:
          
          स्त्रीशिक्षा। स्त्री शिक्षायाः महत्त्वम्
         
8. सहशिक्षा नास्त्युचिती यतो हि विविधाः बाला: विविधेभ्यः गृहेभ्यः एकत्र समेत्य विविधाः रुच्या: अतिरुच्याश्च वेशभूषा: परिधाय, विविधरूपम् आकर्षकं स्वरूपं केशविन्यासं च कृत्वा उद्भवद्यौवनांकुराः कामवासनाग्रस्ता: अकाले एव जायन्ते। परस्परस्निग्धदृष्टयः अन्योन्याकर्षणतत्पराश्च शिक्षाग्रहणे प्रमत्ता इन्द्रियजन्यसुखोत्सुका: कालं क्षिपन्ति। तेन च ब्रह्मचर्याभावः अनुशासनहीनती च वर्धेते। तत् कुतः शिक्षा? तस्मात्सु गुप्तव्यभिचारकारणात् वीर्यक्षयात् रोगवृद्धयोः च बालानां बालिकानाञ्च शालाः पृथक् दूरे च स्युः। योरोपदेशेष्वपि यौनदोषाः अनेन कारणेन एव। तस्मात् पृथक् व्यवस्थया स्वास्थ्यरक्षा, सर्वकारस्य धनरक्षा च तस्य धनस्य कश्चिदंशः पृथक् व्यवस्थाकृते कल्पेत एव। अतो नोचिता सहशिक्षा।
          I. एकपदेन उत्तरत (4 x 4 = 2)
          
          (i) अत्र का अनुचिता कथिता?
          
          (ii) केषु देशेषु यौनदोषाः सहशिक्षाया: कारणेन सन्ति?
          
          (iii) बाल बालिकानां च पृथक् शाला: कुत्र स्युः?
          
          (iv) सहशिक्षायां छात्राः शिक्षाग्रहणे कीदृशाः भवन्ति?
          
          उत्तर:
          
          (i) सहशिक्षा
          
          (ii) योरोपदेशेषु
          
          (ii) दूरे
          
          (iv) प्रमत्ता:
         
          II. पूर्णवाक्येन उत्तरत (1 x 2 = 2)
          
          (i) अस्मिन् गद्यांशे कस्याः दोषाः वर्णिताः सन्ति?
          
          (ii) सहशिक्षया किं वर्धते?
          
          उत्तर:
          
          (i) अस्मिन् गद्यांशे सहशिक्षायाः दोषाः वर्णिताः सन्ति
          
          (ii) सहशिक्षया ब्रह्मचर्याभावः अनुशासनहीनता च वर्धेते।
         
          III. ‘तेन च’, अत्र ‘तेन’ इति सर्वनामपदे कस्मै प्रयुक्तम्?
          
          उत्तर:
          
          सहशिक्षादोषेभ्यः।
         
          IV. ‘वर्धेते’ इति क्रियापदस्य कर्तृपदं लिखत।
          
          उत्तर:
          
          ब्रह्मचर्याभावः अनुशासनहीनता च
         
          V. (i) वेशभूषाः’ इति पदस्य अत्र किं विशेषणं प्रयुक्तम्?
          
          (ii) ‘सावधानाः’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्।
          
          उत्तर:
          
          (i) अतिरुच्याः
          
          (ii) प्रमत्ता:
         
          VI. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
          
          उत्तर:
          
          सहशिक्षायाः दोषाः अथवा सहशिक्षया हानयः।
         
9. केचन सहशिक्षायाः समर्थकाः अस्माकं देशे सन्ति। तदनुसारं सहशिक्षा आवश्यकी यतोहि सहवासेन बाल: बालिकानां प्रवृत्ती: चेष्टाश्च बुध्यते। तद् बुद्ध्वा च स भविष्यजीवने गृहस्थाश्रमे यथावत् चेष्टते। तदभावे सः स्त्रीप्रकृतिम् अबुद्ध्वा कुशलो गृहस्थो न स्यात्। अथ च शिक्षा बहुधनम् अपेक्षते। भारतशासनम् आर्थिकसहायतां ददाति विद्याशालाभ्यः। परं कोशे तावद्धनं न भवति यत् बालानां बालिकानाञ्च कृते पृथक्-पृथक् विद्याशाला: प्रयोगशालाश्च स्थापिताः स्युः। तस्मात् एकस्यां विद्याशालायाम् उभयोरपि सहशिक्षा भवितुं शक्नोति अल्पेनापि व्ययेन। इतरथा तु द्विगुणो व्ययो भवति। न च तावान् अर्थभारो भारतशासनेन सोढुं शक्यः। तेन सहशिक्षैव सर्वत्र चलतु इति तन्मतम्।।
          I. एकपदेन उत्तरत (4 x 4 = 2)
          
          (i) सहवासेन कः बालिकानां प्रवृत्ती: बुध्यते?
          
          (ii) स्त्रीप्रकृतिम् अबुद्ध्वा जनः कीदृशः गृहस्थः न भवति?
          
          (iii) शिक्षा किम् अपेक्षते?
          
          (iv) अर्थभार: केन सोढुं न शक्य:?
          
          उत्तर:
          
          (i) बालः
          
          (ii) कुशलः
          
          (iii) बहुधनम्।
          
          (iv) भारतशासनेन
         
          II. पूर्णवाक्येन उत्तरत (1 x 2 = 2)
          
          (i) अल्पेन व्ययेन कीदृशी शिक्षा भवितुं शक्नोति?
          
          (ii) भारतशासनं विद्याशालाभ्यः किं ददाति?
          
          उत्तर:
          
          (i) अल्पेन व्ययेन सहशिक्षा भवितुं शक्नोति।
          
          (ii) भारतशासनं विद्याशालाभ्यः आर्थिकसहायतां ददाति।
         
          III. ‘स स्त्रीप्रकृतिम् अबुद्ध्वा ‘, अत्र ‘स’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
          
          उत्तर:
          
          सहशिक्षायाः वञ्चिताय।
         
          IV. ‘अपेक्षते’ इति क्रियापदस्य कर्तृपदं लिखत।
          
          उत्तर:
          
          शिक्षा।
         
          V. (i) ‘विद्यालयाः’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्?
          
          (ii) ‘सम्भूय’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्।
          
          उत्तर:
          
          (i) विद्याशालाः
          
          (ii) पृथक्-पृथक्
         
          VI. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
          
          उत्तर:
          
          सहशिक्षायाः लाभाः।
         
10. प्रतिवर्ष नवम्बरमासस्य चतुर्दश्यां तारिकायां बालदिवसः सम्पूर्ण भारतदेशे सोत्साहम् उत्सवरूपेण मान्यते। एतस्यां तिथौ स्वतन्त्रभारतस्ये प्रथमप्रधानमन्त्रिणः श्री जवाहरलालनेहरो: जन्मदिवसः वर्तते। श्रीनेहरूमहाभागः शिशुषु बालेषु च भृशं स्नेहं करोति स्म। स्वतंत्रभारतराष्ट्रस्य पुनर्निर्माणार्थं यत्र अन्येषु क्षेत्रेषु अपि विविधाः योजनाः निर्मिताः तत्र बालकानां शिशुना विकासाय अपि अनेकाः कार्यक्रमाः विरचिताः। बालसुलभरुच्यनुसारं सांस्कृतिक कार्यक्रमशंखलां विरच्य नेहरूमहोदयः एतादृशीं प्रसिद्धिम् आप्नोत् तस्मिन् उपरते अपि जनाः तस्य जन्मदिवसे एव बालविकासकार्यक्रमान् अद्य यावत् प्रचालयन्ति। तस्मिन् प्रधानमन्त्रिणि सति सः न केवलं भारतदेशे एव अपितु विदेशेष्वपि बालकानां सांस्कृतिककार्यक्रमेभ्यः अपूर्वी रुचिं प्रादर्शयत्। बालकाः अपि श्रद्धाभिभूताः स्नेहवशीभूत-नेहरू-महाभागानां विनोदाय बाललीलाः बालक्रीडाः च प्रादर्शयन्। अतएव तेषां जन्मदिवसएवं बालोत्सवरूपेण सर्वत्र सम्पाद्यते।
          I. एकपदेन उत्तरत (4 x 4 = 2)
          
          (i) भारते नवम्बरमासय चतुर्दश्यां तारिकायां कः मान्यते?
          
          (ii) बालदिवसे कस्य जन्मदिवसः वर्तते?
          
          (iii) नेहरूमहाभागानां जन्मदिवसः बालोत्सवरूपेण कुत्र सम्पाद्यते?
          
          (iv) कः शिशुषु अतीव स्नेहं करोति स्म?
          
          उत्तर:
          
          (i) बालदिवसः
          
          (ii) श्रीजवाहरलालनेहरो:
          
          (iii) सर्वत्र
          
          (iv) श्रीनेहरूमहाभागः
         
          II. पूर्णवाक्येन उत्तरत (1 x 2 = 2)
          
          (i) कस्मिन् प्रधानमन्त्रिणि सति बालका: तस्य विनोदाय बाललीला: प्रादर्शयन्?
          
          (ii) श्रीनेहरूमहाभागे उपरते अपि जनाः अद्य यावत् किं प्रचालयन्ति?
          
          उत्तर:
          
          (i) श्रीनेहरूमहाभागे प्रधानमन्त्रिणि सति बालकाः तस्य विनोदाय बाललीलाः प्रादर्शयन्।।
          
          (ii) श्रीनेहरूमहाभागे उपरते अपि जनाः अद्य यावत् बालविकास कार्यक्रमान् प्रचालयन्ति।
         
          III. ‘तेषां जन्मदिवसः’, अत्र ‘तेषाम्’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
          
          उत्तर:
          
          श्रीनेहरूमहाभागेभ्यः।
         
          IV. ‘सम्पाद्यते’ क्रियापदस्य कर्तृपदं लिखत।
          
          उत्तर:
          
          जन्मदिवसः
         
          V. (i) ‘बालकाः’ इति पदस्य अत्र किं विशेषणं प्रयुक्तम्?
          
          (ii) ‘निर्मिताः’ इत्यर्थे अत्र किं पर्यायं प्रयुक्तम्?
          
          उत्तर:
          
          (i) श्रद्धाभिभूताः।
          
          (ii) विरचिताः
         
          VI. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
          
          उत्तर:
          
          बालदिवसस्य महत्त्वम् अथवा बालदिवसः।
         
11. योग्यतमे शिक्षके ये गुणाः तत्त्वतः अपेक्षिताः, ते सर्वे गुणाः प्रायेण मम प्रिये शिक्षके श्रीमति आनन्दस्वरूपे दृश्यन्ते। सः स्वविषयं पूर्वतः एव सम्यक् पठित्वा कक्षायाम् आयाति। स्वविषयम् अत्यन्तेन विश्वासेन सह अध्यापयति। कठिनम् अपि विषयम् उदाहरणैः सह सरलीकृत्य उपस्थापयति। तस्य व्याख्याने छात्रजन: सावधानमनसा शृणोति। मन्दबुद्धिः अपि छात्रः सुगमतया विषयम् आकलयति। अध्यापनसमये गुरुमहाभागः पुनः-पुनः प्रश्नान् करोति, तेन सर्वेऽपि छात्रा: सावधानाः तिष्ठन्ति। छात्राः अपि या प्रश्नान् पृच्छन्ति सः तान् सम्यक् समादधते। सः प्रतिदिनं छात्राय गृहकार्यम् अपि ददाति। परस्मिन् दिने छात्राणां गृहकार्यं पश्यति। यत्र-यत्र प्रमादः वर्तते तत्र तेन निराकरणं क्रियते। छात्राणां पुन:-पुनः प्रमादं दृष्ट्वा तस्य मनः खेदं ने वहति। यः छात्रः प्रमादं करोति गुरुवर्यः तं पुनः-पुन: बोधयति। तस्य व्यवहारं परिश्रम च दृष्ट्वा सर्वे छात्राः तस्य आज्ञां परिपालयन्ति।
          I. एकपदेन उत्तरत (4 x 4 = 2)
          
          (i) श्री आनन्दस्वरूपः कीदृशः शिक्षकः अस्ति?
          
          (ii) सः स्वविषयं केन सह अध्यापयति?
          
          (iii) सः कान् सम्यक् समादधते?
          
          (iv) छात्राणां प्रमादं दृष्ट्वा तस्य मनः किं न वहति?
          
          उत्तर:
          
          (i) योग्यतमः
          
          (ii) विश्वासेन
          
          (iii) प्रश्नान्
          
          (iv) खेदम्
         
          II. पूर्णवाक्येन उत्तरत (1 x 2 = 2)
          
          (i) श्री आनन्दस्वरूप: प्रतिदिनं छात्रेभ्यः किं ददाति?
          
          (ii) किं दृष्ट्वा छात्रा: श्रीमत: आनन्दस्वरूपस्य आज्ञा परिपालयन्ति?
          
          उत्तर:
          
          (i) श्री आनन्दस्वरूपः छात्रेभ्यः प्रतिदिनं गृहकार्यं ददाति।
          
          (ii) श्रीमतः आनन्दस्वरूपस्य व्यवहारं परिश्रमं च दृष्ट्वा छात्रा: तस्य आज्ञा परिपालयन्ति।
         
          III. ‘सः तान् सम्यक् समादधते’, अत्र ‘तान्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
          
          उत्तर:
          
          प्रश्नेभ्यः
         
          IV. ‘दृश्यन्ते’ इति क्रियापदस्य कर्तृपदं लिखत।
          
          उत्तर:
          
          गुणा:
         
          v. (i) ‘अप्रमत्ताः’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्?
          
          (ii) ‘प्रसन्नताम्’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्।
          
          उत्तर:
          
          (i) सावधानाः
          
          (ii) खेदम्
         
          VI. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
          
          उत्तर:
          
          मम प्रियः शिक्षकः अथवा ‘आनन्दस्वरूपः’ इति योग्यतमः शिक्षकः।
         
12. ग्राम्यजीवने कृषिः एव प्रमुखो व्यवसायः। अन्ये च प्रायेण कृषिकर्मसहायाः श्रमिकाः तत्र वसन्ति। केषाञ्चित् कृषकाणां समीपं तु जीवननिर्वाहात् अपि अधिका भूमिः वर्तते, परं बहूनां समीपं अत्यल्पाः भूमिखण्डाः एव सन्ति येभ्यः उत्पादितेन अन्नेन ते अतिकठिनतया निर्वाहं कुर्वन्ति। केषञ्चित् कृषकाणां पाश्र्व इष्टकानिर्मितं आवासगृहं वर्तते परं बहूनां समीपं मृदा-निर्मित-कोष्ठागाराः एव भवन्ति। धनाभावात् ते सुबद्धगृहनिर्माणाय न प्रभवन्ति। केचन ग्रामीणाः सन्ति ये ऋतु-अनुकूलानि वस्त्राणि धारयन्ति, परं बहुनां समीपं एका लघुशाटिका एव वर्तते। श्रमिकवर्गस्तु अत्यर्थं दारिद्र्यं गतः तिष्ठति। सः दिने द्विकृत्वः न उदरपूरं भुङ्क्ते। ईदृशः ग्रामीणजन: अशिक्षितः, रोगबहुलः, कथञ्चित् जीवनयात्रां करोति। तस्य ललाटे समस्याः लिखिताः सन्ति परं न तासां समाधानम्। दारिद्र्योपहतः सः धूम्रपान-मद्यपानादिदुर्गुणैः संवीतः दर्शकाणां हृदयानि द्रवयति।
          I. एकपदेन उत्तरत (4 x 4 = 2)
          
          (i) ग्राम्यजीवने कः प्रमुखः व्यवसाय:?
          
          (ii) ग्रामीणजनस्य ललाटे काः लिखिताः सन्ति?
          
          (iii) दारिद्र्योपहत: ग्रामीण: केषां-हृदयानि द्रवयति?
          
          (iv) ग्रामीणाः कीदृशानि वस्त्राणि धारयन्ति?
          
          उत्तर:
          
          (i) कृषिः
          
          (ii) समस्याः
          
          (iii) दर्शकाणां
          
          (iv) ऋतु-अनुकूलानि।
         
          II. पूर्णवाक्येन उत्तरत
          
          (i) ग्रामीणा: कस्मात् सुबद्धगृहनिर्माणाय न प्रभवन्ति?
          
          (ii) ग्रामीणजनः कीदृशीं जीवनयात्रां करोति?
          
          उत्तर:
          
          (i) ग्रामीणाः धनाभावात् सुबद्धगृहनिर्माणाय न प्रभवन्ति।
          
          (ii) ग्रामीणजन: अशिक्षितः, रोगबहुलः कथञ्चित् जीवनयात्रां करोति।
         
          III. ‘ये’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
          
          उत्तर:
          
          ग्रामीणेभ्यः।
         
          IV. ‘तिष्ठति’ इति क्रियापदस्य कर्तृपदं लिखत।
          
          उत्तर:
          
          श्रमिकवर्गः
         
          V. (i) ‘दारिद्र्योपहतः सः’ इति अनयोः विशेषणपदं किम् प्रयुक्तम्?
          
          (ii) धनिकवर्ग:’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्?
          
          उत्तर:
          
          (i) दारिद्र्योपहतः
          
          (ii) श्रमिकवर्ग:
         
          VI. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
          
          उत्तर:
          
          ग्राम्यजीवनम्। ग्रामीणनाम् जीवनम्।
         
13. इह संसारे सर्वेषु वस्तुषु समयः अधिकं मूल्यवत् वस्तु वर्तते। अन्यवस्तूनि विनष्टानि पुनरपि लब्धं शक्यन्ते परं समय: विनष्ट: केनापि उपायेन पुनः प्राप्तुं न शक्यते। यस्य आयुषः यावान् अंशः निरर्थकं गतः स गतः एव। अतः तथा प्रयतितव्यं यथा एकस्यापि क्षणस्य दुरुपयोगः न स्यात्। समस्तः एव समयः समुचितरूपेण व्यतीतः भवेत्। समयः कस्यापि प्रतीक्षां न करोति। अनेके जनाः छूते, विवादे, वृथाभ्रमणे, पिशुनतायां, निद्रायां च समस्तं समयं नयन्ति। ते निजजीवनस्य बहुमूल्यम् अंशं वृथा यापयन्ति। समयस्य सदुपयोग: जीवनसफलतायाः प्रथम सोपानम्, समुन्नते: च मूलमंत्रम् अस्ति। प्रकृतिः अपि समयस्य सदुपयोगमेव शिक्षयति। ये जनाः समयस्य दुरुपयोग न कुर्वन्ति ते सदा सुखेनैव तिष्ठन्ति। अतः आलस्यं विहाय सर्वदैव समयस्य सदुपयोग: कर्तव्यः। उक्तं च ‘क्षिप्रमक्रियमाणस्य कालः पिबति तद् रसम्’।
          I. एकपदेन उत्तरत (2 x 4 = 2)
          
          (i) संसारे सर्वाधिकं मूल्यवत् वस्तु किम् अस्ति?
          
          (ii) समस्त: समयः कथं व्यतीतः भवेत्?
          
          (iii) समयस्य सदुपयोगः कस्याः मूलमंत्रम् अस्ति?
          
          (iv) किं विहाय समयस्य सदुपयोग: कर्तव्य:?
          
          उत्तर:
          
          (i) समय:
          
          (ii) समुचितरूपेण
          
          (iii) समुन्नते:
          
          (iv) आलस्यं
         
          II. पूर्णवाक्येन उत्तरत (1 x 2 = 2)
          
          (i) अनेके जनाः कथं समस्तं समयं नयन्ति?
          
          (ii) कीदृशाः जनाः सदा सुखेनैव तिष्ठन्ति?
          
          उत्तर:
          
          (i) अनेके जनाः छूते, विवादे, वृथाभ्रमणे, पिशुनतायां, निद्रायां च समस्तं समयं नयन्ति।
          
          (ii) ये जना: समयस्य दुरुपयोगं न कुर्वन्ति ते सदा सुखेनैव तिष्ठन्ति।
         
          III. ‘स गतः एव’ अत्र ‘स’ इति सर्वनामपदं कस्य कृते प्रयुक्तम् अस्ति?
          
          उत्तर:
          
          आयुष: अंशस्य कृते।
         
          IV. निर्देशानुसारेण उत्तरत् (1 x 3 = 3)
          
          (i) ‘अंशम्’ इति पदस्य किं विशेषणम्?
          
          (ii) ‘व्यर्थम्’ इति पदस्य किं पर्यायपदम् अत्र प्रयुक्तम्?
          
          (iii) ‘सदुपयोगः’ इत्यस्य विपरीतार्थकं पदं किं प्रयुक्तम्?
          
          उत्तर:
          
          (i) बहुमूल्यम्
          
          (ii) निरर्थकम्
          
          (iii) दुरुपयोगः
         
          V. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
          
          उत्तर:
          
          अस्य गद्यांशस्य शीर्षक: समयः बहुमूल्यः अस्ति अथवा समयस्य सदुपयोगः।
         
14. देशस्य भक्ति: देशभक्तिः कथ्यते। देशभक्तिभावनया एव सैनिकाः अन्ये जनाः च देशहिताय स्वप्राणान् अपि त्यक्तुम् । इच्छन्ति। कवयः वदन्ति-जननी जन्मभूमिश्च स्वर्गादपि गरीयसी। लोकानां शरणदायिनी, नानाभोज्यपदार्थप्रदायिनी एषा अस्माकं जन्मभूमिः वीरभूमिः अस्ति। राष्ट्रसंरक्षणाय परस्परम् एकताया: भावना अपेक्षिता। नरस्य हृदये राष्ट्रभावना यदि नास्ति तदा तस्य जीवनं निष्फलम् अस्ति। युद्धक्षेत्रे वीराः देशस्य रक्षणार्थं स्वप्राणान् समर्पितवन्तः। यदा सर्वेषु एव देशवासिषु एतादृशी भावना भविष्यति तदा देशः नूनम् उन्नतिं करिष्यति। यस्य नरस्य हृदयं राष्ट्रप्रेमभावनया भरितं नास्ति तत् हृदयं पाषाणतुल्यम् वर्तते। अस्माभिः अपि स्वार्थं परित्यज्य देशस्य उन्नतिः देशवासिनां च सेवा करणीया।
          I. एकपदेन उत्तरत (1/2 x 4 = 2)
          
          (i) सैनिकाः अन्ये जनाः च देशहिताय किं त्यक्तुम् इच्छन्ति?
          
          (ii) अस्माकं जन्मभूमिः कीदृशी अस्ति?
          
          (iii) देशस्य रक्षणार्थम् स्वप्राणान् के समर्पितवन्त:?
          
          (iv) अस्माभिः किं परित्यज्य देशवासिन सेवा करणीया?
          
          उत्तर:
          
          (i) स्वप्राणान्
          
          (ii) वीरभूमिः
          
          (iii) वीराः
          
          (iv) स्वार्थम्
         
          II. पूर्णवाक्येन उत्तरत (1 x 2 = 2)
          
          (i) कस्य हृदयं पाषाणतुल्यम् अस्ति?
          
          (ii) राष्ट्र संरक्षणाय का अपेक्षिता अस्ति?
          
          उत्तर:
          
          (i) यस्य नरस्य हृदयं राष्ट्रप्रेमभावनया भरितं नास्ति तस्य हृदयं पाषाणतुल्यम् अस्ति।
          
          (ii) राष्ट्रसंरक्षणाय परस्परम् एकतायाः भावना अपेक्षिता अस्ति।
         
          III. ‘अस्माकम्’ इति पदं गद्यांशे कस्मै प्रयुक्तम्? (1 x 3 = 3)
          
          उत्तर:
          
          भारतवासिभ्यः
         
          VI. निर्देशानुसारेण उत्तरत्
          
          (i) ‘लोकानां शरणदायिनी’ इति पदस्य किं विशेष्यपदम् अत्र किम् अस्ति?
          
          (ii) ‘अवनतिः’ इत्यस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
          
          (iii) ‘माता’ इत्यर्थे कः शब्दः अत्र प्रयुक्त:?
          
          उत्तर:
          
          (i) जन्मभूमिः
          
          (ii) उन्नतिः
          
          (iii) जननी
         
          V. अस्य अनुच्छेदस्य उपयुक्तं शीर्षक लिखत।
          
          उत्तर:
          
          जननी जन्मभूमिश्च स्वर्गादपि गरीयसी अथवा देशभक्तिः।
         
15. नराणां सर्वाङ्गीण विकासार्थं छात्रजीवनम् अतीव महत्वपूर्णं भवति। जीवनस्य अस्मिन्नेव काले सः यादृशं वृत्तं समाचरति, यादृशान् मूल्यान् स्वीकरोति तादृक् एव भवति। जीवनस्य विकासक्रमे अयं प्रथमः सोपानः विद्याध्ययनकालः कथ्यते। वैदिके युगे अयमेव काल: ‘ब्रह्मचर्याश्रमम्’ इति नाम्ना ज्ञायते स्म। अद्यापि अभिभावका: सर्वविधक्लेशान् समुपेक्ष्य यथाशक्ति उत्तमशिक्षाव्यवस्थायै प्रयतन्ते। परं अद्यतनीयाः छात्राः स्वभविष्यं अविचार्य पाश्चात्य-परम्पराणाम् अंधानुकरणं कुर्वन्त: समयं वृथा यापयन्ति। परीक्षाकाले येन-केनापि प्रकारेण अङकानि ग्रहीतुम् यतन्ते। न विचारयन्ति ते स्वविकासलतायामेव कुठाराघातं कुर्वन्ति। विद्याध्ययनकालः तु तपस्याकालः। अतः सर्वाणि सुखानि आलस्यं च विहाय विद्यार्जनं कर्तव्यम् यतो हि-क्षणे नष्टे कुतो विद्या।
          I. एकपदेन उत्तरत (4 x 4 = 2)
          
          (i) कः तपस्याकाल:?
          
          (ii) नराणां सर्वाङ्गीणविकासार्थं किम् अतीव महत्त्वपूर्ण भवति?
          
          (iii) सुखानि आलस्यं च विहाय किं कर्तव्यम्?
          
          (iv) जीवनस्य विकासक्रमे अयं प्रथम: सोपान: किं कथ्यते?
          
          उत्तर:
          
          (i) विद्याध्ययनकालः
          
          (ii) छात्रजीवनम्
          
          (iii) विद्याजर्नम्
          
          (iv) विद्याध्ययनकाल:
         
          II. पूर्णवाक्येन उत्तरत (1 x 2 = 2)
          
          (i) छात्रजीवनं किमर्थम् महत्त्वपूर्ण भवति?
          
          (ii) परीक्षाकाले छात्राः किं कर्तुम् यतन्ते?
          
          उत्तर:
          
          (i) नराणां सर्वाङ्गीण विकासार्थं छात्रजीवनम् अतीव महत्त्वपूर्ण भवति।
          
          (ii) परीक्षाकाले छात्रा: येन-केनापि प्रकारेण अङ्कानि ग्रहीतुम् यतन्ते।
         
          III. निर्देशानुसारेण उत्तरत् (1 x 3 = 3)
          
          (i) ‘न विचारयन्ति ते’ अत्र ‘ते’ सर्वनामपदं केभ्यः प्रयुक्तम्?
          
          (ii) ‘वृत्तम्’ इत्यस्य पदस्य विशेषणं किम्?
          
          (iii) अनुच्छेदे ‘आधुनिका:’ पदस्य अर्थे कि पदं केभ्यश्च प्रयुक्तम्?
          
          उत्तर:
          
          (i) अत्र ‘ते’ सर्वनाम पदं छात्रेभ्यः’ प्रयुक्तम्।
          
          (ii) यादृशम्
          
          (iii) अद्यतनीयाः पदं छात्रेभ्यः प्रयुक्तम्।
         
          IV. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
          
          उत्तर:
          
          छात्रजीवनस्य महत्त्वम्।
         
16. वन्दे भारतमातरम्। भारतभूमिः सुजला, सुफला, शस्यश्यामला च अस्ति। इयं देवानाम् अपि मनांसि मोहयति। गंगा यमुनादयः नद्यः स्वजलेन मातरम् सिञ्चन्ति। रत्नाकरः अस्याः पादौ प्रक्षालयति। हिमालयः उत्तरस्यां दिशि अस्याः रजतकिरीटमिव शोभते। धन्याः खलु वयम् ये अस्याः भूम्यां सुखेन वसामः। अत्र महर्षिः व्यासः, कवि: कालिदासः, भगवान् रामः, कृष्णः, दयानन्दः, महात्मा गांधी तथा अन्ये अनेके महापुरुषाः जन्म गृहीतवन्त: मातुः यश:जगति प्रसारितवन्तश्च। अस्माकम् अपि कर्त्तव्यम् अस्ति यत् वयम् अस्याः रक्षणे सदा उद्यता: भवेम, सच्चारित्र्येण च भारतभूमेः मस्तकम् उन्नतं कुर्याम। देवाः अपि गीतकानि गायन्ति यत् ते भारतभूमिभागाः धन्याः यत्र ते सुरत्वात् भूयः मनुष्याः भवन्ति।
          I. एकपदेन उत्तरत (4 x 4 = 2)
          
          (i) भारतभूमि: केषाम् अपि मनांसि मोहयति?
          
          (ii) अस्याः पादौ क: प्रक्षालयति?
          
          (iii) हिमालयः भारतस्य कस्यां दिशि विराजते?
          
          (iv) कां वन्दे?
          
          उत्तर:
          
          (i) देवानाम्
          
          (ii) रत्नाकरः
          
          (iii) उत्तरस्याम्
          
          (iv) भारतमातरम्
         
          II. पूर्णवाक्येन उत्तरत (1 x 2 = 2)
          
          (i) के के जनाः मातुः यश: जगति प्रसारितवन्त:?
          
          (ii) कस्याः रजतकिरीटम् इव हिमालयः शोभते?
          
          उत्तर:
          
          (i) अत्र महर्षिः व्यासः, कवि: कालिदासः, भगवान् रामः, कृष्णः, दयानन्दः, महात्मा गाँधी तथा अन्ये अनेके महापुरुषाः जन्म गृहीतवन्तः, मातुः यशः जगति प्रसारितवन्तः च।
          
          (ii) हिमालयः भारतमातुः रजतकिरीटम् इव शोभते।
         
          III. निर्देशानुसारेण उत्तरत् (1 x 4 = 4)
          
          (i) ‘गृहीतवन्तः’ इति पदे कः प्रत्ययः?
          
          (ii) ‘अस्माकम् अपि कर्तव्यम् अस्ति।’ अत्र ‘अस्माकं पदं केभ्यः प्रयुक्तम्?
          
          (iii) ‘अनेके महापुरुषा:’ अनयोः पदयोः किं पदं विशेषणम्?
          
          (iv) ‘ये वयम् अस्याः भूम्यां सुखेन वसामः’ अत्र ‘अस्याः’ पदं कस्यै प्रयुक्तम्?
          
          उत्तर:
          
          (i) क्तवतु प्रत्ययः
          
          (ii) भारतीयेभ्यः
          
          (iii) अनेके
          
          (iv) भारतमात्रे
         
          IV. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
          
          उत्तर:
          
          धन्या भारतमाता।
         
 
 
 
 
