Students can access the CBSE Sample Papers for Class 10 Sanskrit with Solutions and marking scheme Term 2 Set 6 will help students in understanding the difficulty level of the exam.
CBSE Sample Papers for Class 10 Sanskrit Term 2 Set 6 for Practice
समयः : होरात्रयम्
सम्पूर्णाङ्काः : 40
प्रश्नपत्रस्वरूपम :
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 9 प्रश्नाः सन्ति।
- अस्य प्रश्नपत्रस्य पठनाय 20 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम्।
- उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
- प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् एवं लेखनीया।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
(वर्णनात्मकाः प्रश्नाः)
अपठित-अवबोधनम् (40 अङ्काः)
प्रश्नः 1.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत(निम्न लिखित – (10)
गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।) भारतवर्षः अस्माकं प्रियः देशः वर्तते। आर्यावर्तम्, हिन्दुस्तानम्, आदिभिः विविधैः नामभिः प्रसिद्धमस्ति अस्माकं भारतवर्षम्। दुष्यन्तशकुन्तलयोः पुत्रस्य भरतस्य नाम्ना अस्य देशस्य नाम ‘भारतवर्षम्’ अभवत् इति प्रसिद्धम्। भरतस्य शासिततत्वादेतत् ‘भारतम्’ इति प्रसिद्धम्। भरतस्य शासिततत्वातत् ‘भारतम्’ इति कथ्यते। भारतस्य स्थानं विश्वस्य सर्वश्रेष्ठदेशेषु प्राचीनतमं विशिष्टतम् च अस्ति। अत्रैव मानव संस्कृतेः सभ्यतायाश्च प्रतीकभूत ज्ञानराशिः वेदः सृष्ट्यारम्भ प्रकटीभूतः। भारतवर्षमुत्तरादिशायां हिमालय-पर्वतादारभ्य दक्षिणस्यां दिशि कन्याकुमारी पर्यन्तं विस्तृतं वर्तते। उत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजोऽस्य शिरांसि हिमरजतमकुटमिव सुशोभते। सः प्रहरीव भारतं रक्षति। अस्य दक्षिणस्यां दिशायां सागरः स्वविमलजलैः अस्य चरणौ सततं प्रक्षालयति। उक्तम् अपि
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्ष तह भारतं नाम भारती तत्र सन्ततिः॥
(अ) एकपदेन उत्तरत। (केवलं प्रश्न-द्वयम्) (1 × 2 = 2)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) अस्माकं प्रियः देशः कः वर्तते?
(ii) भरतः कयोः पुत्रः आसीत्?
(iii) यत्र भारती कस्य सन्तति?
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्न-द्वयम्) (2 × 2 = 4)
(पूर्णवाक्य में उत्तर लिखिए) (केवल दो प्रश्न)
(i) भारतस्य विविधनाम किम्?
(ii) भारतवर्ष कियत् विस्तृतं वर्तते?
(iii) वेदः कस्याः प्रतीकभूत ज्ञानराशि कदा च प्रकटीभूतः?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (द्वित्रिशब्दात्मक-वाक्यम्) (1)
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।) (दो-तीन शब्द का वाक्य)
(ई) निर्देशानुसारं उत्तरत। (केवलं प्रश्न-त्रयम्) (1 × 3 = 3)
(निर्देशानुसार उत्तर दीजिए) (केवल तीन प्रश्न)
(i) ‘दिशायां’ इति पदस्य किं पर्यायपदम् अत्र प्रयुक्तम्?
(क) दक्षिणस्यां
(ख) दिशि
(ग) उत्तरस्यां
(ii) ‘रक्षति’ इति क्रियायाः कर्तृपदं किम्?
(क) हिमालयः
(ख) नाम
(ग) देवतात्मा
(ii) ‘नगाधिराजः हिमालयः’ अनयोः पदयोः किं विशेषणपदम्?
(क) हिमालयः
(ख) नगाधिराजः
(ग) शिरांसि
(iv) अप्रियः’ इति पदस्य कृते गद्यांशे कः विपर्ययः आगतः?
(क) भारतः
(ख) नाम
(ग) प्रियः
रचनात्मकं-कार्यम्
प्रश्नः 2.
सखी समीक्षां प्रति लिखितम् अधः पत्रं मञ्जूषापद सहायतया पूरयित्वा पुनः लिखत। (2 × 10 = 5)
कौटिल्य छात्रावास
(i) …………
दिनांक……………
प्रिये (ii)……..
नमोनमः।
भवत्याः पत्रं प्राप्तम्। भवती संस्कृतभाषां पठितुम् इच्छति (iii)………. पठित्वा मह्यम् प्रसन्नतायाः सीमा नास्ति। एषा भाषा सर्वाधिका (iv)….. । संस्कृतम् अस्माकं देशस्य प्रतिष्ठा। वेदाः उपनिषदाः, रामायण, महाभारतं (v)……. महाकाव्यानि इत्यादिकं सर्वं (vi)….. अत्यन्त मार्गदर्शक, ज्ञानवर्धकं प्रेरणाप्रदं च अस्ति। (vii)……. संस्कृतं पृथक् कर्तुं तथैव न शक्यते यथा पुष्पेभ्यः सुगन्धम्। संस्कृतेन सम्भाषणम् अस्माकं हृदये गौरवं वर्धयति हीनभावनां च नाशयति। अतः त्वम् अवश्यं संस्कृतं पठ, पठित्वा च (viii)……. कुरु। एवं वयम् भारतमातुः सेवां कृत्वा धन्याः भवाम। सर्वेभ्यः अग्रजेभ्यः मम प्रणामाः अग्रजेभ्यः च (ix)………..। भवत्याः
प्रियसखी। (x) … मञ्जूषा-वैज्ञानिकी, प्रचार, उदयपुरतः, वाङ्मयम्, समीक्षे, | भारतीय संस्कृतेः, इति, प्रतिष्ठा, पुराणानि, आशीर्वादाः।
प्रश्नः 3.
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां साहाय्येन पञ्च वाक्यानि संस्कृतेन लिखत (1 × 5 = 5)
(नीचे दिए गए चित्र को देखकर मंजूषा में दिए गए शब्दों की सहायता से पाँच वाक्य संस्कृत में लिखिए।)
मञ्जूषा-कारयानम्, धूम, वृक्षः, छिन्नाः, माता, बालकः, वनस्य, दृश्यते, अस्ति, भवति।
अथवा
मञ्जूषायां प्रदत्तशब्दानां सहाय्येन निम्नलिखितं विषयं अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत। (मञ्जूषा में दिए गए शब्दों की सहायता से निम्नलिखित विषय पर पाँच संस्कृत वाक्यों में एक अनुच्छेद लिखिए।)
‘अस्माकम् ग्रामाः’
मञ्जूषा-कृषकाः, वृषभौ, हलेन, पञ्चायतः, ग्राम-प्रमुखः कृषिकार्यम्, शस्यं, क्षेत्राणि
प्रश्नः 4.
अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत-(केवलं पञ्चवाक्यम्, रचनात्मक) (1 × 5 = 5)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए) (केवल पाँच वाक्य)
(i) हम लोग मित्रों के साथ खेलेंगे।
We will play with friends.
(ii) हमारा बगीचा बड़ा सुन्दर है।
Our garden is very beautiful.
(iii) बगीचे में अनेक पेड़ और पौधे हैं।
There are many trees and plants in the garden.
(iv) क्या तुमने उत्सव में नृत्य किया।
Did you dance in celebration?
(v) हमें दूध पीना चाहिए।
We should drink milk.
(vi) क्या तुम सबने फल खाये?
Did you all eat fruit ?
पठित-अवबोधनम्
प्रश्नः 5.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्
उत्तराणि संस्कृतेन लिखत(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।) विचित्रा दैव गतिः। तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः। तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः। आदेशं प्राप्य उभौ प्राचलताम्। तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ।” आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकायः। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच- ‘रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः।
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) दैवगतिः कीदृशी अस्ति?
(ii) कृशकायः कः आसीत् ?
(ii) आरक्षी कीदृशः आसीत् ?
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) अभियुक्तस्य क्रन्दनं श्रुत्वा प्रसन्नं आरक्षी तम् किम् उवाच?
(ii) आदेशं प्राप्य उभौ कुत्र प्रस्थितौ?
(iii) न्यायधीशः किम् विषये वस्तुमादिष्टौ?
प्रश्नः 6.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत
(निम्नलिखित पद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः॥
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (½ × 2 = 1)
(एक शब्द में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) कीदृशः जनः बलं वेत्ति?
(ii) कीदृशः जनः बलं न वेत्ति?
(iii) कीदृशः जनः गुणं जानाति?
(आ) पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) पिकः किम् जानाति वायसः च किम् न?
(ii) करी किम् जानाति मूषकः च किम् न जानाति?
(iii) गुणी जनः सर्वदा किम् वेत्ति?
प्रश्नः 7.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत –
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
- सिंहः – (क्रोधेन गर्जन्) भोः अहं वनराजः किं भयं न जायते? किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा?
- एक: वानरः – यतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः।
राजा तु रक्षकः भवति परं भवान् तु भक्षकः।
अपि च स्वरक्षायामपि समर्थः नासि तर्हि
कथमस्मान् रक्षिष्यसि?
अन्यः वानरः – किं न श्रुतां त्वया पञ्चतन्त्रोक्तिः
यो न रक्षति वित्रस्तान् पीड्यमाना परैः सदा।
जन्तून् पार्थिवरूपेण स कृतान्तो न संशयः॥
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (2 × 2 = 1)
(एक शब्द में उत्तर लिखिए) (केवल दो प्रश्न)
(i) कः क्रोधेन गर्जति?
(ii) राजा कीदृशः भवति?
(iii) ‘अहं वनराजः अस्मि’ इति कः कथयति?
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(पूर्णवाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) कः कृतान्तः भवति?
(ii) वानरः सिंहम् किम् कथयति?
(iii) नाट्यांशे एकः वानरः किम् अकथयत्?
प्रश्नः 8.
मञ्जूषातः समुचित पदानि चित्वा अधोलिखित श्लोकयोः अन्वयं पूरयत- (½ × 4 = 2)
(मंजूषा से उचित पदों को चुनकर निम्नलिखित श्लोकों के अन्वय को पूरा कीजिए।)
सेवितव्यो महावृक्षः फलच्छया समन्वितः।
यदि दैवात् फलं नास्ति छाया केन निवार्यते॥
अन्वयः-फलच्छायासमन्वितः (i)…….. सेवितव्यः (ii) …….. यदि फलं (iii)…… वृक्षस्य (iv)……. केन निवार्यते। |
मञ्जूषा-महावृक्षः, छाया, नास्ति, दैवात् ।
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत।
(मंजूषा की सहायता से श्लोक के भावार्थ से रिक्तस्थानों को पूरा करके पुनः लिखिए।)
वाक्पटु धैर्यवान् मन्त्री सभायामप्यकातरः।
सः केनापि प्रकारेण परैर्न परिभूयते॥
अन्वयः-य मन्त्री (i)…… सम्भाषणे चतुरः धैर्ययुक्तः (ii)……. च भवति, सः मन्त्री, (iii)….. कथमपि, (iv)…… न शक्यते।
मञ्जूषा-तिरस्कर्तुम्, निर्भीकः, सभायाम्, विरोधिभिः
प्रश्नः 9.
अधोलिखित-कथांशं समुचितक्रमेण लिखत (½ × 8 = 4)
(निम्नलिखित कथाशं को समुचित क्रम में लिखिए।)
(i) अतः अहमेव वनराजपदप्राप्तये योग्यः।
(ii) अहं अविचल: ध्यानमग्नः स्थितप्रज्ञ इव तिष्ठामि।
(iii) एतसर्वं श्रुत्वा नदीमध्यस्थितः एकः बकः आयाति।
(iv) मां विहाय कथमन्यः कोऽपि राजा भवितुमर्हति।
(v) मयूरः तं बकम् आत्मश्लाघायाः विरमति।
(vi) योजनां निर्मीय जन्तुभिः मिलित्वा रक्षोपयान् कारयिष्यामि।
(vi) सर्वेषां रक्षायाः उपायान् चिन्तयिष्यामि।
(vii) अहं तुं शीतले जले बहुकालपर्यन्तम् स्थानुं शक्नोमि।