CBSE Class 11 Sanskrit Chapter 1 सामान्यः संस्कृत-साहित्य-परिचयः
I. संस्कृतशब्दस्य व्युत्पत्तिः परिभाषा (वाङ्मयं) च।
          1. संस्कृतस्य का व्युत्पत्तिः?
          
          उत्तर:
          
          सम् + कृ + क्त + नपुंसकलिङ्ग, प्रथमा विभक्तिः , एकवचनम्।
         
          2. संस्कृतस्य परिभाषा का?
          
          उत्तर:
          
          यस्यां भाषायां भारतीय संस्कृतेः संस्काराः ज्ञान-विज्ञानादि सर्वे विषयाः सन्ति सा भाषा संस्कृतम् अस्ति।
          
           अथवा
          
          या भाषा व्याकरण-दृष्ट्या परिष्कृतं शुद्ध वा अस्ति सा संस्कृतम् अस्ति।
         
          3. वेदस्य कः अभिप्रायः?
          
          उत्तर:
          
          ‘वेदः’ ज्ञानार्थकस्य वाचकः अस्ति। भारतस्य प्राचीनतमं ज्ञानं विज्ञान संस्कृतिः अध्यात्मादिक साहित्यं वेदेषु विद्यते।
         
          4. वेदाः कति सन्ति? तेषां नामानि लिखत।
          
          उत्तर:
          
          वेदाः चत्वारः सन्ति – 1. ऋग्वेदः, 2. यजुर्वेदः, 3. सामवेदः, 4. अथर्ववेदः।
         
          5. ऋग्वेदस्य संक्षिप्त परिचयं लिखत।
          
          उत्तर:
          
          – ऋग्वेदस्य ‘मंत्र:’ ‘ऋच्’ इति नाम्ना अपि जायते।
          
          – अस्मिन् वेदे प्राकृतिक-देवानाम् स्तुतयः सन्ति। प्रमुखाः स्तुत्याः देवाः सन्ति-इन्द्रः वरुणः अग्निः च।
          
          – अस्मिन् (10) मण्डलानि सन्ति। मण्डलेषु अष्टाविंशत्याधिकैक सहस्त्रं (1028) सूक्ताः सन्ति। सूक्तेषु (10580) ‘मन्त्राः ‘ (ऋचः) सन्ति।
         
          6. यजुर्वेदस्य संक्षिप्त परिचयं लिखत।
          
          उत्तर:
          
          – यजुर्वेदे कर्मकाण्डस्य विधिः वर्णिता। अयं वेदः यज्ञप्रधानः अस्ति।
          
          – अस्य भेदद्वयम् – 1. कृष्ण-यजुर्वेदः, 2. शुक्ल-यजुर्वेदः।
          
          – ‘ईशावास्योपनिषद्’ अपि यजुर्वेदे एव अस्ति।
         
          7. सामवेदस्य संक्षिप्त परिचयं लिखत।
          
          उत्तर:
          
          – सामन् = लय:/स्वर:/गायनम्।
          
          – अस्य द्वौ भेदौ – 1. पूर्वार्चिकः, उत्तरार्चिक:।
          
          – अस्य अधिकांश – मन्त्राः ऋग्वेदस्य एव सन्ति।
          
          – अयं वेदः गायनप्रधानः अस्ति।
         
          8. अथर्ववेदस्य संक्षिप्त परिचयं लिखत।
          
          उत्तर:
          
          – यज्ञमण्डप-वेदिकादि-विषयकं वास्तुशास्त्रप्रधानः वेदः।
          
          – अस्य अन्यानि नामानि – 1. अथर्वागिरस्-वेदः 2. ब्रह्मवेदः 3. सामवेदः।
          
          – इष्टकर्माणि अपि अस्मिन् वेदे वर्णितानि।
         
वैदिक-साहित्यस्य मिश्रिताभ्यासः
          1. वैदिक-साहित्यस्य विकासकालः कः?
          
          (i) 2000 ई०पू० – 800 ई०पू०।
          
          (ii) 2000 ई० – 800 ई०।
          
          (iii) 2000 ई० – 800 ई०पू०।
          
          (iv) 2000 ई०पू० – 800 ई०पू०।
          
          उत्तर:
          
          (i) 2000 ई०पू०-800 ई०पू०।
         
          2. संहितानां नामानि लिखत।
          
          उत्तर:
          
          (i) ऋग्वेदः
          
          (ii) यजुर्वेदः
          
          (ii) सामवेदः
          
          (iv) अथर्ववेदः
         
          3. ऋत्विजः कति भवन्ति? तेषां नामानि लिखत –
          
          उत्तर:
          
          ऋत्विजः चत्वारः भवन्ति। तेषां नामानि सन्ति –
          
          (i) होता (ऋग्वेदतः)
          
          (ii) अध्वर्युः (यजुर्वेदतः)
          
          (iii) उद्गाता (सामवेदतः)
          
          (iv) ब्रह्मा (अथर्ववेदतः)
         
          4. ऋक्सूक्तेषु कति मन्त्राः सन्ति?
          
          (i) 10
          
          (ii) 1028
          
          (iii) 10, 580
          
          (iv) 101
          
          उत्तर:
          
          (iii) 10, 580
         
          5. कोष्ठकात् समुचितम् उत्तरं चित्वा रिक्तस्थानानि पूरयत।
          
          (i) ऋग्वेदे ………… मण्डलानि सन्ति। (10/1028)
          
          (ii) ऋग्वेदे (1028) ………………… सन्ति। (मन्त्राः/सूक्ताः )
          
          (iii) कृष्णशुक्लौ ……………… शाखे स्तः। (यजुर्वेदस्य/सामवेदस्य)
          
          उत्तर:
          
          (i) 10
          
          (ii) सूक्ताः
          
          (iii) यजुर्वेदस्य।
         
          6. वेदेन सह सम्बद्धम् ऋत्विजं योजयत।
          
 
          उत्तर:
          
          1. (iii)
          
          2. (iv)
          
          3. (ii)
          
          4. (i)
         
          7. ‘वेदत्रयी’ इति शीर्षके के वेदाः सन्ति?
          
          (i) ऋग्वेदः, यजुर्वेदः सामवेदः च।
          
          (ii) यजुर्वेदः, सामवेदः, अथर्ववेदः च।
          
          (iii) ऋक्सामाथर्वाः।
          
          (iv) ऋग्वेदः, अथर्ववेदः, यजुर्वेदः।
          
          उत्तर:
          
          (i) ऋग्वेदः, यजुर्वेदः, सामवेदः च।
         
          8. उपनिषत्सु प्रथमं भाष्यं कः रचितवान्?
          
          उत्तर:
          
          शंकराचार्यः।
         
          9. शंकराचार्यः वेदान्त दर्शनस्य कस्य वादं रचितवान्?
          
          उत्तर:
          
          अद्वैतवादम्।
         
          10. निरुक्तस्य प्रणेता (रचयिता) कः?
          
          उत्तर:
          
          यास्काचार्यः।
         
मिश्रित – अभ्यास: – 1
          एकपदेन उत्तरता।
          
          1. रामायणस्य रचयिता कः?
          
          उत्तर:
          
          वाल्मीकिः।
         
          2. रामायणे कति काण्डानि सन्ति?
          
          उत्तर:
          
          सप्त।
         
          3. रामायणे कति श्लोकाः सन्ति?
          
          उत्तर:
          
          चतुर्विशतिसहस्त्रं श्लोकाः।
         
          4. रामायणस्य नायक कः?
          
          उत्तर:
          
          श्रीरामः।
         
          5. रामायणस्य अपरं नाम किम्?
          
          उत्तर:
          
          चतुर्विशतिसाहस्त्री-संहिता/आदिकाव्यम्।
         
          6. महाभारतस्य रचयिता कः?
          
          उत्तर:
          
          कृष्ण-द्वैपायन-वेदव्यासः।
         
          7. महाभारते कति श्लोकाः सन्ति?
          
          उत्तर:
          
          शतसहस्त्र/लक्षैकाः।
         
          8. महाभारतस्य अपरं नाम किम्?
          
          उत्तर:
          
          शतसाहस्त्री-संहिता।
         
          9. विश्वस्य कः प्रसिद्धः दार्शनिकः ग्रंथः महाभारतस्य अंशः अस्ति?
          
          उत्तर:
          
          श्रीमद्भागवद्गीता।
         
          10. महर्षिवेदव्यासस्य अपरं नाम किम्?
          
          उत्तर:
          
          कृष्णद्वैपायनः।
         
          11. महाभारते कति पर्वाणि सन्ति?
          
          उत्तर:
          
          अष्टादश।
         
          12. पुराणानां रचयिता कः?
          
          उत्तर:
          
          वेदव्यासः।
         
          13. पुराणेषु मुख्यरूपेण किं नाम छन्दः प्रयुक्तम्?
          
          उत्तर:
          
          अनुष्टुप्।
         
          14. पुराणानि कति?
          
          उत्तर:
          
          अष्टादश।
         
          II. पूर्णवाक्येन उत्तरत।
          
          1. उपजीव्यं नाम काव्यं किं भवति?
          
          उत्तर:
          
          यस्य ग्रन्थस्य कथानकं चित्वा कवयः काव्यानि कुर्वन्ति तत् काव्यम् उपजीव्यं कथ्यते।
          
          2. रामायणस्य रचनाकालः कः?
          
          उत्तर:
          
          रामायणस्य रचनाकालस्य अपरसीमा ख्रीस्ताब्दात् पञ्चशतं वर्षाणि पूर्वं (500 ई० पू०) मन्यते।
          
          3. महाभारतस्य रचनाकाल कः?
          
          उत्तर:
          
          महाभारतस्य रचनाकालस्य अपरसीमा ख्रीस्ताब्दात् चतुश्शतं वर्षाणि पूर्व (400 ई०पू०) मन्यते।
         
मिश्रित – अभ्यासः – 2
          1. रूपकं किं भवति? तस्य कति भेदाः सन्ति?
          
          उत्तर:
          
          दृश्य-काव्यम् एव रूपकं भवति। अस्य दश भेदाः सन्ति।
         
          2. रूपकेषु नाटकस्य स्थानं कीदृशम्?
          
          उत्तर:
          
          रूपकेषु नाटकस्य स्थानं प्रमुखम् भवति।
         
          3. नाट्यविद्यायाः प्रथमग्रन्थस्य नाम किम्?
          
          उत्तर:
          
          नाट्यशास्त्रम्।
         
          4. नाट्यशास्त्र कः रचितवान?
          
          उत्तर:
          
          भरतमुनिः/भरताचार्य:/आचार्यः भरतः।
         
          5. भासस्य सर्वप्रमुखनाटकस्य नाम किम्?
          
          उत्तर:
          
          प्रतिमानाटकम्।
         
          6. नाटककारान् तेषां नाटकैः सह योजयत।
          
 
          उत्तर:
          
          1. (iv)
          
          2. (iii)
          
          3. (v)
          
          4. (ii)
          
          5. (i)
          
          7. कोष्ठकात् समुचितपदैः परिभाषां पूरयत।
          
          (i) नाटकस्य कथानकम् एव तस्य …………………. कथ्यते। (वस्तु, कथांश:)
          
          (ii) यः नाटकस्य उद्देश्यं कथानकं च पूरयत् प्रमुखं पात्रं भवति सः …………………. कथ्यते।(नायकः, विदूषकः)
          
          (iii) नाटकस्य सर्वप्रमुखं स्त्रीपात्रं तस्य …………………. एव भवति। (नटी, नायिका)
          
          (iv) यः अंग-वाणी-वेषैः हास्यकारः भवति सः …………………. कथ्यते। (नटः, विदूषक:)
          
          (v) नाटकस्य प्रारम्भे कृता देवस्तुतिः …………………. कथ्यते। (नान्दी, प्रस्तावना)
          
          (vi) यः नाटकस्य उपकरणानि (सूत्रवत्) धारयति सः …………………. कथ्यते। (विदूषकः, सूत्रधारः)
          
          (vii) नाटकस्य कथायाः आरम्भिकी सूचना एव …………………. कथ्यते। (प्रवेशकः, प्रस्तावना)
          
          (viii) नाटके सर्वश्राव्यं कथनं …………………. एव उच्यते। (प्रकाशम्, अपवारितम्)
          
          (ix) यत् कथनं सर्वश्राव्यं न भूत्वा केवलं पात्रविशेषेण स्वमनसि उद्यते, तदेव …………………. कथ्यते। (आत्मगतम्, प्रकाशम्)
          
          (x) मञ्चस्य पार्श्वे पात्राणां सज्जाकक्षाः, यः समुचितसूचनार्थाय अपि प्रयुज्यते तदेव …………………. कथ्यते। (नेपथ्यम्, प्रकाशम्)
          
          उत्तर:
          
          (i) वस्तु
          
          (ii) नायकः
          
          (iii) नायिका
          
          (iv) विदूषकः
          
          (v) नान्दी
          
          (vi) सूत्रधारः
          
          (vii) प्रस्तावना
          
          (viii) प्रकाशम्
          
          (ix) आत्मगतम्
          
          (x) नेपथ्यम्।
         
मिश्रित – अभ्यासः – 3
          1. संस्कृतगद्यस्य आरम्भः कुत्र दृश्यते?
          
          उत्तर:
          
          संस्कृतगद्यस्य आरम्भः ब्राह्मण-ग्रन्थेषु उपनिषत्सु च दृश्यते।
         
          2. संस्कृतगद्यसाहित्यस्य न्यूनतायाः प्रमुखानि त्रीणि कारणानि लिखत।
          
          उत्तर:
          
          (i) गद्यकाव्यस्य स्मरणम् अतिश्रमम् अपेक्षते।
          
          (ii) आलोचकाः अस्य उपेक्षां कुर्वन्ति।
          
          (iii) गद्यकाव्यस्य मानदण्डः उच्चतमः भवति।
         
          3. गद्यकाव्यस्य श्रेष्ठाः कवयः के सन्ति?
          
          उत्तर:
          
          दण्डी, सुबन्धुः बाणः च गद्यकाव्यस्य श्रेष्ठाः कवयः सन्ति।
         
          4. गद्यकविभिः सह तेषां रचनाः मेलयत।
          
 
          उत्तर:
          
          1. (ii)
          
          2. (iii)
          
          3. (i)
         
          5. संस्कृतपद्यस्य आरम्भः कुत्र दृश्यते?
          
          उत्तर:
          
          संस्कृतपद्यस्य आरंभः ऋग्वेदे रामायणे च दृश्यते।
         
          6. पद्यकाव्ये प्रमुखानि कीदृशानि काव्यानि सन्ति?
          
          उत्तर:
          
          पद्यकाव्ये महाकाव्यं, खण्डकाव्यं, गीतिकाव्यं, मुक्तक काव्यं, स्तोत्रकाव्यं, शतककाव्यम् इत्यादीनि काव्यानि सन्ति।
         
          7. संस्कृतस्य अधोलिखितपद्यकारान् तेषां रचनाभिः सह मेलयत।
          
 
          उत्तर:
          
          1. कालिदासः – (viii) रघुवंशम्, कुमारसम्भवम्
          
          2. अश्वघोषः – (v) बुद्धचरितम्, सौन्दरनन्दम्
          
          3. भारविः – (vii) किरातार्जुनीयम्
          
          4. भट्टिः – (iii) रावणवधम्
          
          5. कुमारदासः – (i) जानकीहरणम्
          
          6. माघः – (iv) शिशुपालवधम्
          
          7. श्रीहर्षः – (vi) नैषधीयचरितम्
          
          8. बिल्हणः – (ix) विक्रमांकदेवचरितम्
          
          9. जयदेवः – (x) गीतगोविन्दम्
          
          10. भर्तृहरिः – (ii) शतकत्रयम्
         
          8. चम्पूकारान् तेषां रचनाभिः सह मेलयत।
          
 
           उत्तर:
          
          1. त्रिविक्रमभट्टः – (iii) नलचम्पूः, मदालसाचम्पू:
          
          2. सोमप्रभसूरिः – (iv) यशस्तिलकचम्पू:
          
          3. सोड्ढलः – (ii) उदयसुन्दरी कथा
          
          4. भोजराजः – (v) रामायणचम्पूः
          
          5. अनन्तभट्टः – (vi) भारतचम्पू:
          
          6. हरिश्चन्द्रः – (i) जीवन्धरचम्पूः
         
 
 
 
 
