• NCERT Solutions
    • NCERT Library
  • RD Sharma
    • RD Sharma Class 12 Solutions
    • RD Sharma Class 11 Solutions Free PDF Download
    • RD Sharma Class 10 Solutions
    • RD Sharma Class 9 Solutions
    • RD Sharma Class 8 Solutions
    • RD Sharma Class 7 Solutions
    • RD Sharma Class 6 Solutions
  • Class 12
    • Class 12 Science
      • NCERT Solutions for Class 12 Maths
      • NCERT Solutions for Class 12 Physics
      • NCERT Solutions for Class 12 Chemistry
      • NCERT Solutions for Class 12 Biology
      • NCERT Solutions for Class 12 Economics
      • NCERT Solutions for Class 12 Computer Science (Python)
      • NCERT Solutions for Class 12 Computer Science (C++)
      • NCERT Solutions for Class 12 English
      • NCERT Solutions for Class 12 Hindi
    • Class 12 Commerce
      • NCERT Solutions for Class 12 Maths
      • NCERT Solutions for Class 12 Business Studies
      • NCERT Solutions for Class 12 Accountancy
      • NCERT Solutions for Class 12 Micro Economics
      • NCERT Solutions for Class 12 Macro Economics
      • NCERT Solutions for Class 12 Entrepreneurship
    • Class 12 Humanities
      • NCERT Solutions for Class 12 History
      • NCERT Solutions for Class 12 Political Science
      • NCERT Solutions for Class 12 Economics
      • NCERT Solutions for Class 12 Sociology
      • NCERT Solutions for Class 12 Psychology
  • Class 11
    • Class 11 Science
      • NCERT Solutions for Class 11 Maths
      • NCERT Solutions for Class 11 Physics
      • NCERT Solutions for Class 11 Chemistry
      • NCERT Solutions for Class 11 Biology
      • NCERT Solutions for Class 11 Economics
      • NCERT Solutions for Class 11 Computer Science (Python)
      • NCERT Solutions for Class 11 English
      • NCERT Solutions for Class 11 Hindi
    • Class 11 Commerce
      • NCERT Solutions for Class 11 Maths
      • NCERT Solutions for Class 11 Business Studies
      • NCERT Solutions for Class 11 Accountancy
      • NCERT Solutions for Class 11 Economics
      • NCERT Solutions for Class 11 Entrepreneurship
    • Class 11 Humanities
      • NCERT Solutions for Class 11 Psychology
      • NCERT Solutions for Class 11 Political Science
      • NCERT Solutions for Class 11 Economics
      • NCERT Solutions for Class 11 Indian Economic Development
  • Class 10
    • NCERT Solutions for Class 10 Maths
    • NCERT Solutions for Class 10 Science
    • NCERT Solutions for Class 10 Social Science
    • NCERT Solutions for Class 10 English
    • NCERT Solutions For Class 10 Hindi Sanchayan
    • NCERT Solutions For Class 10 Hindi Sparsh
    • NCERT Solutions For Class 10 Hindi Kshitiz
    • NCERT Solutions For Class 10 Hindi Kritika
    • NCERT Solutions for Class 10 Sanskrit
    • NCERT Solutions for Class 10 Foundation of Information Technology
  • Class 9
    • NCERT Solutions for Class 9 Maths
    • NCERT Solutions for Class 9 Science
    • NCERT Solutions for Class 9 Social Science
    • NCERT Solutions for Class 9 English
    • NCERT Solutions for Class 9 Hindi
    • NCERT Solutions for Class 9 Sanskrit
    • NCERT Solutions for Class 9 Foundation of IT
  • CBSE Sample Papers
    • Previous Year Question Papers
    • CBSE Topper Answer Sheet
    • CBSE Sample Papers for Class 12
    • CBSE Sample Papers for Class 11
    • CBSE Sample Papers for Class 10
    • Solved CBSE Sample Papers for Class 9 with Solutions 2023-2024
    • CBSE Sample Papers Class 8
    • CBSE Sample Papers Class 7
    • CBSE Sample Papers Class 6
  • Textbook Solutions
    • Lakhmir Singh
    • Lakhmir Singh Class 10 Physics
    • Lakhmir Singh Class 10 Chemistry
    • Lakhmir Singh Class 10 Biology
    • Lakhmir Singh Class 9 Physics
    • Lakhmir Singh Class 9 Chemistry
    • PS Verma and VK Agarwal Biology Class 9 Solutions
    • Lakhmir Singh Science Class 8 Solutions

LearnCBSE Online

NCERT Solutions | NCERT Books | RD Sharma Solutions | NCERT Exemplar Problems | CBSE Sample Papers

Learn CBSE

NCERT Solutions for Class 6, 7, 8, 9, 10, 11 and 12

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम्

April 29, 2021 by LearnCBSE Online

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम् Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम्

अभ्यासवान् भव के गद्यांश (पृष्ठ 1-12)

अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तरं प्रदत्त
निम्नलिखित गद्यांश को पढ़कर इस आधारित प्रश्नों के उत्तर लिखिए।

प्रश्न 1.
गोदावरीतीरे विशालः शाल्मलीतरुः आसीत्। तत्र पक्षिणः निवसन्ति स्म। अथ कदाचित् रात्रौ कश्चिद् व्याधः तत्र तण्डलान विकीर्य जालं च विस्तीर्य प्रच्छन्नो भत्वा स्थितश्च। प्रातःकाले चित्रग्रीवनामा कपोतराजः सपरिवारः आकाशे तान् तण्डुलकणान् अपश्यत्। ततः कपोतराजः तण्डुललुब्धान् कपोतान् प्रत्याह- “कुतोऽत्र निर्जने वने तण्डुलकणानां सम्भवः। भ्रदमिदं न पश्यामि। संभवतः कोऽपि व्याधः अत्र भवेत्। सर्वथा अविचारितं कर्म न कर्तव्यम्।” परं तस्य वचनं तिरस्कृत्य कश्चित् तरुणः कपोतः सदर्पमाह-आः! किमेवमुच्यते

वृद्धानां वचनं ग्राह्यमापत्काले झुपस्थिते।
सर्वत्रैवं विचारेण भोजनेऽप्यप्रवर्तनम्॥

प्रश्नाः
(1) एकपदेन उत्तरत
(क) आपत्काले केषां वचनं ग्राह्यम्?
(ख) विशालः शाल्मलीतरुः कुत्रासीत्?
(ग) व्याधः कान् विकीर्य प्रच्छन्नो भूत्वा स्थितः?
(घ) सर्वथा कीदृशं कर्म न कर्तव्यम्?
उत्तर:
(क) वृद्धानां
(ख) गोदावरीतीरे
(ग) तण्डुलान्
(घ) अविचारितम्

(2) पूर्णवाक्येन उत्तरत
(क) कपोतराजः कान् प्रत्याह?
(ख) के कदा क्लिश्यन्ते?
उत्तर:
(क) कपोतराजः तण्डुललुब्धान् कपोतान् प्रत्याह।
(ख) लोभमोहिताः जाले च निबद्धाः सर्वे कपोताः क्लिश्यन्ते।

(3) भाषिककार्यम्
(क) ‘विशाल: शाल्मलीतरुः आसीत्।’ अत्र विशेषणपदं किम्?
(ख) ‘तरुणः कपोतः सदर्पम् आह’ इति वाक्ये क्रियापदं चित्वा लिखत।
(ग) ‘तत्र रात्रौ पक्षिणः निवसन्ति स्म’, इति वाक्ये कर्तृपदं चित्वा लिखत।
(घ) ‘वृद्धः’ इत्यस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
उत्तर:
(क) विशालः
(ख) आह
(ग) पक्षिणः
((घ) तरुणः

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘अविचारितं कर्म न कर्त्तव्यम्/वृद्धानां वचनं ग्राह्यम्।

प्रश्न 2.
समयो हि अन्येषां वस्तूनाम् अपेक्षया अधिकः महत्त्वपूर्णः मूल्यवान् च वर्तते अन्यानि वस्तूनि विनष्टानि पुनरपि लब्धं शक्यन्ते परं समयो विनष्टो न केनापि उपायेन पुनः परावर्तयितुं शक्यते। जनाः द्विधा समयस्य दुरुपयोगं कुर्वन्ति-व्यर्थयापनेन अकार्यकरणेन च। अनेके जनाः कार्यसम्पादने समर्थाः अपि निरर्थकं समयं यापयन्ति। इतस्ततः भ्रमन्ति, अप्रयोजनं गृहे-गृहे अटन्ति। ते तु स्वार्थाय न च परार्थाय किञ्चित् कार्यं कुर्वन्ति। न धर्मम् आचरन्ति, न धनम् उपार्जयन्ति, तेषां जन्म निरर्थकं भवति। भूमिरपि एतादृशानां निष्क्रियाणां भारं वोढुं नेच्छति। ईदृशाः जनाः कस्मै अपि न रोचन्ते न वा कश्चित् तेभ्यः आश्रयमेव दातुमिच्छति। ते यत्र-यत्र गच्छन्ति ततः एव बहिष्क्रियन्ते। पितरौ अपि एतादृशान् तनयान् न अभिनन्दतः। अतः अस्माभिः आलस्यं विहाय सर्वदैव समयस्य सदुपयोगः कर्तव्यः।

प्रश्ना :
(1) एकपदेन उत्तरत
(क) पितरौ एतादृशान् कान् नाभिनन्दतः?
(ख) क: विनष्टः परावर्तयितुं न शक्यते?
(ग) का निष्क्रियाणां भारं वोढुं नेच्छति?
(घ) किं विहाय समयस्य सदुपयोगः कर्तव्यः?
उत्तर:
(क) तनयान्
(ख) समयः
(ग) भूमिः
(घ) आलस्यम्

(2) पूर्णवाक्येन उत्तरत
(क) केषां जन्म निरर्थकं भवति?
(ख) अन्येषां वस्तूनामपेक्षया समयः किमर्थमधिकः महत्त्वपूर्णः मूल्यवान् च?
उत्तर:
(क) ये जनाः इतस्ततः भ्रमन्ति, परार्थाय किञ्चित् कार्यं न कुर्वन्ति। न धर्मम् आचरन्ति, न धनम् उपार्जयन्ति, तेषाम् जन्म निरर्थकं, भवति।
(ख) अन्यानि वस्तूनि विनष्टानि पुनः अपि लब्धुं शक्यन्ते परं समयः विनष्टः न केनापि उपायेन पुनः परावर्तयितुं शक्यते। अतः अन्येषां वस्तूनाम् अपेक्षया समयः अधिकः महत्त्वपूर्णः मूल्यवान्

(3) भाषिक-कार्यम्
(क) ‘यावान् कालः निरर्थक: गतः सः गतः एव’ इति वाक्ये अव्ययपदं किम् इति चित्वा लिखत।
(ख) ‘सदुपयोगः’ इत्यस्य पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(ग) ‘अनेके जनाः’ इत्यत्र विशेष्यपदं किम्?
(घ) ‘पुत्रान्’ इत्यस्य कृते गद्यांशे किं पदं प्रयुक्तम्?
उत्तर:
(क) एव
(ख) दुरुपयोग
(ग) अनेके
(घ) तनयान्

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं.दीयताम्।
उत्तर:
‘समयस्य सदुपयोगः कर्त्तव्यः’।

प्रश्न 3.
जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवृद्धः च आसीत्। तस्य पुत्रः धनेशः विद्वान् पितृभक्तश्चासीत्। सः पितुः सकाशादेव वेदशास्त्राणाम् अध्ययनं करोति स्म। श्रद्धया च तं सेवते। धनेशः सर्वदा अव्यवधानेन पित्रोः वचनं पालयति स्म। पित्रोः सेवायाम् अध्ययने चैव तस्य समय: गच्छति स्म। तस्य सेवया पितरौ सर्वदा स्वस्थौ प्रसन्नौ चास्ताम्। एतत्सर्वं दृष्ट्वा एकदा नगेन्द्रः नाम शिष्यः धनेशमपृच्छत्-हे धनेश! किं जीवनपर्यन्तम् एवमेव पितृसेवायाः कार्यं करिष्यसि? त्वं जीवनस्य किम् उद्देश्यम् मन्यसे? प्रश्नौ निशम्य धनेशः साश्चर्यम् उदतरत्-भोः मित्र! किं त्वं ‘पित्रोः सेवया एव विज्ञानम्’ इति सूत्रं न श्रुतवान्। अहं तयोः सेवया एव आत्मानं गौरवान्वितम् अनुभवामि। कालक्रमेण धनेशः लोकविश्रुतः विद्वान् अभवत्।

प्रश्नाः
(1) एकपदेन उत्तरत
(क) धनेशः कयोः सेवायां समयं यापयति स्म?
(ख) कः विद्वान् पितृभक्तश्चासीत्?
(ग) कः धनेशं जीवनस्य अभिप्रायम् अपृच्छत्?
(घ) आचार्यस्य नाम किम् आसीत्?
उत्तर:
(क) पित्रोः
(ग) नगेन्द्रः
(ख) धनेशः
(घ) जयदेवः

(2) पूर्णवाक्येन उत्तरत
(क) धनेशस्य समयः कथं गच्छति स्म?
(ख) नगेन्द्रस्य प्रश्नौ निशम्य धनेशः साश्चर्यम् किम् उदतरत्?
उत्तर:
(क) धनेशस्य समयः पित्रोः सेवायाम् अध्ययने च एव गच्छति स्म।
(ख) नगेन्द्रस्य प्रश्नौ निशम्य धनेशः साश्चर्यम् उदतरत्-“भो मित्र!” किं त्वं पित्रोः सेवया एव विज्ञानम्’ इति सूत्रं न श्रुतवान्। अहं तयोः सेवया एव आत्मानं गौरवान्वितम् अनुभवामि।”

(3) यथानिर्देशम् उत्तरत
(क) ‘तस्य पुत्रः धनेशः’ इत्यत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(ख) ‘श्रुत्वा’ इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम्?
(ग) ‘पितरौ सर्वदा स्वस्थौ प्रसन्नौ चास्ताम्’ अत्र क्रियापदं चित्वा लिखत।
(घ) ‘मातुः’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
उत्तर:
(क) जयदेवाय
(ख) निशम्य
(ग) आस्ताम्
(घ) पितुः

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘पित्रोः सेवया एव विज्ञानम्’।

प्रश्न 4
अमर्त्य सेनः इति नाम एव संस्कृतमयम्। अस्य जन्म शान्तिनिकेतने अभवत्। शान्तिनिकेतनस्य संस्थापकः गुरुदेवः रवीन्द्रनाथठाकुरः अस्य नामकरणं कृतवान्। बालकस्य नामकरणं कुर्वन् सः उक्तवान् आसीत्- ‘अमर्त्य सेनः’ इत्येतत् पदं संस्कृतमूलम्। शान्तिनिकेतने वसन् अमर्त्य सेनः संस्कृताभ्यासं कृतवान्। सः ‘स्वपितामहः श्री क्षितीश मोहन सेन इव संस्कृतस्य प्रसिद्धः विद्वान् भवेयम्’ इति इच्छति स्म। उच्चशिक्षाप्राप्त्यर्थं स आंग्लदेशम् अगच्छत् तत्र ‘अर्थशास्त्रस्य’ विशदम् अध्ययनं कृत्वा प्राध्यापकः अभवत्। अध्यापन-समये सः अर्थशास्त्रविषयकी महतीं गवेषणाम् अकरोत्। अध्यापन-कार्यं समाप्य श्रीअमर्त्य सेनः भारतं प्रत्यावर्तत। भारत-सर्वकारः तस्य वैदुष्यं विदूत्तां च समादरन् तस्मै ‘भारतरत्नम्’ इति सम्मानं दत्तवान्। जयतु एषः संस्कृतपुत्रः, अर्थशास्त्री च।

प्रश्नाः
(1) एकपदेन उत्तरत
(क) अमर्त्य सेनस्य जन्म कुत्र अभवत्?
(ख) अमर्त्य सेनाय ‘भारतरत्नम्’ इति सम्मानं कः दत्तवान्?
(ग) अमर्त्य सेनः उच्चशिक्षार्थं कुत्र अगच्छत्?
(घ) अमर्त्य सेनः कुत्र संस्कृताभ्यासं कृतवान्?
उत्तर:
(क) शान्तिनिकेतने
(ख) भारत-सर्वकारः
(ग) आंग्लदेशम्
(घ) शान्तिनिकेतने

(2) पूर्णवाक्येन उत्तरत
(क) अमर्त्य सेनस्य नामविषये रवीन्द्रनाथः ठाकुरः किम् उक्तवान्?
(ख) अध्यापनसमये सः किं कृतवान्?
उत्तर:
(क) अमर्त्यसेनस्य नामविषये रवीन्द्रनाथः उक्तवान्, “’अमर्त्यसेनः’ इत्येतत् पदं संस्कृतमूलम्।”
(ख) अध्यापनसमये सः अर्थशास्त्रविषयकी महती गवेषणाम् अकरोत्।

(3) यथानिर्देशम् उत्तरत
(क) ‘अस्य जन्म शान्तिनिकेतने अभवत्।’ इत्यस्मिन् वाक्ये ‘अस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(ख) ‘अमर्त्यसेनः संस्कृताभ्यासं कृतवान्।’ गद्यांशेऽस्मिन् कर्तृपदं चित्वा लिखत।
(ग) ‘अगच्छत्’ इति क्रियापदस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(घ) ‘महतीं गवेषणाम्’ अत्र विशेषणपदं किम्?
उत्तर:
(क) अमर्त्य सेनाय
(ख) अमर्त्य सेनः
(ग) प्रत्यावर्तत
(घ) महती

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘अर्थशास्त्री अमर्त्यसेनः’

प्रश्न 5.
विगतसप्ताहे अस्माकं विद्यालयपक्षतः शैक्षणिकयात्राप्रसङ्के वयम् उज्जयिनी प्रति अगच्छाम्। उज्जयिनी भारतस्य इतिहास-धर्म-दर्शन-कला-साहित्य-योग-ज्योतिषादीनां च केन्द्रम् अस्ति। अत्र स्थितस्य महाकालेश्वरस्य कारणेनापि अस्याः विशिष्टं महत्त्वम्। एषा अवन्तिका, विशाला, प्रतिकल्पा, कुमुदवती, स्वर्णशृंगा इति नामभिरपि शास्त्रेषु वर्णिता। अत्रत्या वेधशालाऽपि अतिविशिष्टा। जनाः वेधशाला ‘यन्त्रभवनम्’ इत्यपि वदन्ति। इयम् आंग्लभाषायाम् ‘आब्जर्वेटरी’ इत्यपि कथ्यते। शैक्षणिकयात्राप्रसंगात् अस्याः विशिष्टावलोकनम् अस्माभिः कृतम्। एषा वेधशाला उज्जयिन्याः दक्षिणभागे क्षिप्रायाः उत्तरतटे उन्नतभूभागे स्थिताऽस्ति। कर्करेखा इतः एव निर्गता। इदं स्थानं गणितस्यापि आधारस्थलम्। अष्टादशशताब्द्यां राज्ञा जयसिंहेन ज्योतिषानुरागवशात् वेधशालायाः निर्माणं कारितम्। ग्रहाणां प्रत्यक्षवेधनाय जयसिंहः उज्जयिन्याम् काश्याम् देहल्याम् जयपुरे मथुरायां च वेधशालानां निर्माणम् अकारयत्। वस्तुतः वेधशाला वीक्ष्य मनसि गौरवमनुभवामि यत् प्राचीनकालेऽपि अस्माकं पूर्वजानां गणितस्य ग्रहनक्षत्राणाञ्च ज्ञानम् अद्भुतं वैज्ञानिकञ्चासीत्।

प्रश्नाः
(1) एकपदेन उत्तरत
(क) वेधशाला कस्याः उत्तरतटे स्थिता अस्ति?
(ख) विद्यालयपक्षतः वयं कुत्र अगच्छाम?
(ग) वेधशालायाः एकम् अपरं नाम लिखत?
(घ) वेधशाला कस्य आधारस्थलम्?
उत्तर:
(क) क्षिप्रायाः
(ख) उज्जयिनी
(ग) यन्त्रभवनम्
(घ) गणितस्य

(2) पूर्णवाक्येन उत्तरत
(क) जयसिंहः कुत्र-कुत्र वेधशालानां निर्माणम् अकारयत्?
(ख) उज्जयिनी केषां केन्द्रम् वर्तते?
उत्तर:
(क) जयसिंहः उज्जयिन्याम्, काश्याम्, देहल्याम्, जयपुरे मथुरायां च वेधशालानां निर्माणम् अकारयत्।
(ख) उज्जयिनी भारतस्य इतिहास-धर्म-दर्शन-कला-साहित्य-योग-ज्योतिषादीनां च केन्द्रं वर्तते।

(3) यथानिर्देशम् उत्तरत
(क) ‘दृष्ट्वा’ इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?
(ख) ‘उत्तरभागे’ इति पदस्यं विपरीतार्थपदम् अनुच्छेदात् चित्वा लिखत।
(ग) ‘शैक्षणिकयात्राप्रसङ्गात् अस्याः विशिष्टावलोकनम् अस्माभिः कृतम्’-अत्र ‘अस्याः’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(घ) ‘अस्माकं पूर्वजानां ज्ञानम् अद्भुतं वैज्ञानिकञ्चासीत्’ इत्यस्मिन् वाक्ये विशेष्यपदं किम्?
उत्तर:
(क) वीक्ष्य
(ख) दक्षिणभागे
(ग) वेधशालायै
(घ) ज्ञानम्

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘उज्जयिन्याः वेधशाला’।

प्रश्न 6.
पञ्चदश-शताब्द्यां निर्मितं ‘लोधी गार्डन’ इति प्रसिद्धम् उपवनं नवदेहलीक्षेत्रे स्थितमस्ति। नवतिः एकड-परिमितं बृहदाकारकम् इदमुपवनम्। अत्र शताधिक-वर्षेभ्यः प्राचीनाः पादपाः सन्ति। तेषुवटवृक्षः अश्वत्थः निम्बः किंशुकः आम्रम् देवदारुः इंगुदीः सिंसपाः आमलकवृक्षः बिल्वः अर्जुनः च प्रमुखाः सन्ति। सरणिषु स्थिताः वृक्षाः दर्शकानां मनांसि हरन्ति। प्रतिदिनं सहस्रशः जनाः अत्र विहाराय आगच्छन्ति। लक्षशः खगाश्च अत्राश्रयं प्राप्नुवन्ति। इदम् उपवनम् चतुर्भागेषु विभक्तम्। एकत्र पुष्पारामः विराजते। अस्मिन् आरामे मुख्यतया पाटलम् नवमल्लिका उत्पलम् जपाकुसुमम् शेफालिका बकुलपुष्पम् रजनीगन्धा यूथिका च सन्ति। पुष्पाणां शोभा दर्शकानां मनः प्रसादयति। मधुगन्धिनः भ्रमराः पुष्पेषु डयन्ते। पुष्पेभ्यः मधुररसं नीत्वा मधुमक्षिकाः मधुसञ्चयं कुर्वन्ति। अस्मिन् उपवने विद्युन्निर्झराः वातावरणं मनोहरम् शीतलञ्च कुर्वन्ति। अत्र भ्रान्त्वा रुग्णाः अपि जनाः स्वास्थ्यलाभं कुर्वन्ति। कदाचिदस्माभिः अत्र भ्रमणाय गन्तव्यमेव।

प्रश्ना :
(1) एकपदेन उत्तरत
(क) ‘लोधीगार्डन’ इति उपवनम् कति भागेषु विभक्तम्?
(ख) भ्रमराः कुत्र डयन्ते?
(ग) रुग्णाः जनाः किं कृत्वा स्वास्थ्यलाभं कुर्वन्ति?
(घ) केषां शोभा दर्शकानां मनः प्रसादयति?
उत्तर:
(क) चतुर्भागेषु
(ख) पुष्पेषु
(ग) उपवने भ्रान्त्वा
(घ) पुष्पाणाम्

(2) पूर्णवाक्येन उत्तरत
(क) ‘लोधी-गार्डन’ इति नामके उपवने के प्रमुखाः वृक्षाः सन्ति?
(ख) पुष्पारामे उपलब्धानां केषाञ्चित् पुष्पाणां नामानि लिखत।
उत्तर:
(क) ‘लोधी-गार्डन’ इति नामके उपवने अश्वत्थः, निम्बः, किंशुकः, आम्रम्, देवदारुः, इंगुदीः, सिंसपाः, आमलकवृक्षः, बिल्वः अर्जुनः च प्रमुखाः वृक्षाः सन्ति।
(ख) पुष्पारामे उपलब्धानां केषाञ्चित् पुष्पाणां नामानि पाटलम्, नवमल्लिका, उत्पलम्, जपाकुसुमम्, शेफालिका, बकुलपुष्पम्, रजनीगन्धा यूथिका च सन्ति।

(3) यथानिर्देशम् उत्तरत
(क) गद्यांशात् संख्यावाचकमेकं पदं चित्वा लिखत।
(ख) ‘मधुगन्धिनः भ्रमराः’ अत्र किं विशेषणपदं प्रयुक्तम्?
(ग) ‘स्वस्थाः’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(घ) ‘सहस्रशः जनाः भ्रमणाय आगच्छन्ति’ अत्र कर्तृपदं किम्।
उत्तर:
(क) पञ्चदश
(ख) मधुगन्धिनः
(ग) रुग्णाः
(घ) जनाः

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘प्रसिद्धम् उपवनम् ‘लोधी-गार्डन’।

प्रश्न 7
“अम्ब! अहमपि अनुजेन देवेशेन सह क्रीडितुं बहिर्गच्छामि, द्वारं पिधेहि कृपया।” पुत्र्याः इदं वचः निशम्य रमा स्वशैशवं प्राप्ता विचारमग्ना चाभवत्-यदा ममानजः क्रीडनाय बहिर्गच्छति स्म तदा अह स्वपितृभ्यां गृहकार्यार्थं पठनार्थं चैव प्रेरिता येनाऽहं गृहस्योत्तरदायित्वनिर्वाहे शिक्षाक्षेत्रे च श्रेष्ठाऽभवम्। परमद्यापि एका कुण्ठा मनसि यदा-कदा जायते यदहं पाठ्यसहगामिक्रियासु क्रीडासु वा कदापि उत्तम प्रदर्शनं कर्तुं समर्था नाऽभवम्। अद्य मत्सदृश्यः नार्यः वायुयानं चालयन्ति ताः शिक्षिकाः चिकित्सिकाः अधिकारिण्यः प्रशासिकाः वा भूत्वा गृहस्योत्तरदायित्त्वमपि निर्वहन्ति। कः दोषः आसीन्मम यत् निपुणा सत्यपि अहमेतादृशं किमपि कर्तुं नापारयम्। अस्तु तावत्! चिन्तयाऽलम्। अहं पुत्र्यै तादृश्यः सर्वाः सुविधाः अवश्यमेव प्रदास्यामि येन तस्याः मनसि एतादृश्याः कुण्ठायाः अवकाशः एव न स्यात्।

प्रश्ना :
(1) एकपदेन उत्तरत
(क) रमा काभ्यां गृहकार्यार्थं पठनार्थं च प्रेरिता?
(ख) रमा कस्यै सर्वाः सुविधाः प्रदास्यति?
(ग) रमायाः पुत्री केन सह क्रीडितुं बहिर्गच्छति?
(घ) रमा कस्य निर्वाहे श्रेष्ठा अभवत्?
उत्तर:
(क) स्वपितृभ्यां
(ख) पुत्र्यै
(ग) अनुजेन देवेशेन
(घ) गृहस्योत्तरदायित्वनिर्वाहे

(2) पूर्णवाक्येन उत्तरत
(क) पुत्र्याः किं वचः निशम्य रमा स्वशैशवं प्राप्ता?
(ख) रमायाः मनसि यदा कदा कीदृशी कुण्ठा जायते?
उत्तर:
(क) “अम्ब! अहमपि अनुजेन देवेशेन सह क्रीडितुम् बहिः गच्छामि, द्वारं पिधेहि कृपया।” पुत्र्याः इदम् वचः निशम्य रमा स्वशैशवं प्राप्ता अभवत्।
(ख) रमायाः मनसि यदा-कदा एका कुष्ठा जायते यत् सा पाठ्यसहगामिक्रियासु क्रीडासु वा कदापि उत्तमं प्रदर्शनं कर्तुं समर्थः न अभवत्।

(3) यथानिर्देशम् उत्तरत
(क) “एतादृश्याः कुण्ठायाः अवकाशः एव न स्यात्’-अत्र किं विशेष्यपदम्?
(ख) ‘मत्सदृश्यः नार्यः वायुयानं चालयन्ति’ इति वाक्ये किं कर्तृपदम्?
(ग) ‘द्वारं पिधेहि कृपया’ अत्र किं क्रियापदम्?
(घ) ‘अस्तु तावत्’ अनयोः पदयोः किम् अव्ययपदम्?
उत्तर:
(क) कुण्ठायाः
(ख) नार्यः
(ग) पिधेहि
(घ) तावत्

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘रमायाः कुष्ठा’ पुत्र्याः कृते समानाधिकाराः।

प्रश्न 8.
नकुलः प्रतिदिनं प्रातः स्यूतकमादाय महाविद्यालयं गच्छति सायंकाले च कदा आगमिष्यति इति तु अनिश्चितः एव। पितरौ एतत्सर्वं दृष्ट्वा आहतौ भवतः। पुत्रं बोधयितुञ्च प्रयत्नम् अकुरुताम् परं नकुलः किमपि न शृणोति। एकदा पुत्रं प्रबोधयन्ती माता रुदन्ती वदति यत् धिङ् मम जीवितम्, यस्यां सूनुरपि अविश्वसिति, मनोगतं भावमेव न ज्ञापयति। मातुः एतादृशेन व्यवहारेण साश्रुनयनः पुत्रः वदति-मातः! अद्यत्वे मम मित्राणि मां मद्यपानाय प्रेरयन्ति। तैः सह अहमपि सानन्दं मद्यपानं धूम्रपानमपि च करोमि खाद्याखाद्यं च खादामि। बहुधा मित्राणि प्रति ‘न’ इति वक्तुमिच्छामि परमसमर्थः एवात्मानं पश्यामि मित्रतावशात्। मातः! कर्तव्याकर्तव्यमपि विस्मृतं मया। दर्शय मां सन्मार्गम्। एवंभूतं पुत्रं स्नेहेन लालयन्ती माता तमबोधयत् यत्-‘त्यज दुर्जनसंसर्गम्, समानशीलव्यसनेषु चैव सख्यं करणीयमिति’। मातुः वात्सल्यमयेन बोधनेन नकुलः दुर्जनसंसर्गं त्यक्तुं दृढनिश्चयं करोति।

प्रश्ना :
(1) एकपदेन उत्तरत
(क) ‘धिङ् मम जीवितम्’ इति का वदति?
(ख) को आहतौ भवतः?
(ग) माता पुत्रं किं त्यक्तुम् अकथयत्?
(घ) नकुलः मित्राणि प्रति किं वक्तुमिच्छति स्म?
उत्तर:
(1) (क) नकुलस्य माता
(ख) पितरौ
(ग) दुर्जनसंसर्गम्
(घ) न

(2) पूर्णवाक्येन उत्तरत
(क) नकुलः मित्रैः सह किं किं करोति स्म?
(ख) स्नेहेन लालयन्ती माता पुत्रं किं बोधयति? यथानिर्देशम्
उत्तर:
(क) नकुलः मित्रैः सह मद्यपानं धूम्रपानम् अपि च करोति स्म खाद्याखाद्यं च खादति स्म।
(ख) स्नेहन लालयन्ती माता पुत्रं बोधयति यत् दुर्जनसंसर्गम् त्यज एवं समानशीलव्यसनेषु चैव सख्यं करणीयम् इति।

(3) यथानिर्देशम् उत्तरत
(क) ‘अद्यत्वे मम मित्राणि मां मद्यपानाय प्रेरयन्ति’-अत्र किमव्ययपदम्?
(ख) ‘साश्रुनयनः पुत्र वदति’-अत्र किं विशेषणपदम्?
(ग) ‘अनेकशः’ इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम्?
(घ) गद्यांशे ‘शत्रून्’ इति पदस्य किं विलोमपदं प्रयुक्तम्?
उत्तर:
(क) अद्यत्वे
(ख) साश्रुनयनः
(ग) बहुधा
(घ) मित्राणि

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘दुर्जनसंसर्ग न करणीयम्

प्रश्न 9
एकः काष्ठहारः काष्ठान्यानेतुं वनमगच्छत्। तत्र सहसैव वृक्षध्वनिं श्रुत्वा तिष्ठति। वृक्षः समीपस्थं कर्तितं वृक्षं दृष्ट्वा रुदन्निव वदति स्म, ह्यः एकः काष्ठहारः काष्ठाय मम मित्रस्य शरीरमच्छिनत्। छेदनेनास्य शरीरे व्रणान् दृष्ट्वातीव दुःखितोऽहम्। काष्ठानि नीत्वा सः तु आपणं गतवान् परं न कोऽप्यस्त्यत्र योऽस्य व्रणानामुपचारं करोतु। किमर्थं विस्मरन्ति जनाः यदस्माकं शरीरं न केवलं काष्ठविक्रयणाय एवास्ति अपितु वायोः शुद्धीकरणाय, कूहानाशनाय, आतपेन श्रान्तेभ्यः पथिकेभ्यः, पशुभ्यश्च छायाप्रदानाय, खगेभ्यः निवासाय, व्याधितेभ्यः औषधये, बुभुक्षितेभ्यः फलप्रदानाय चाप्यस्ति। काष्ठविक्रयेण तु केवलमेकवारमेव एकस्यैव लाभ: जायते परमनेन चिरकालपर्यन्तं वधाः प्राणिनः निराश्रिताः भवन्ति। फलौषधीनां प्राप्तिरपि दर्लभा भवति। एवमेव एकैकं कृत्वाऽस्माकं सर्वेषां कर्तनेन वसन्तादीनां ऋतूनां महत्त्वमपि विलुप्तं भविष्यति। इदं सर्वं श्रुत्वा खिन्नमनः काष्ठहारः वृक्षकर्तनात् विरम्य वृक्षारोपणम् आरब्धवान्।

प्रश्ना :
(1) एकपदेन उत्तरत
(क) काष्ठहारः किं श्रुत्वा तिष्ठति?
(ख) वृक्षस्य वार्ता श्रुत्वा काष्ठहारः कीदृशः अभवत्?
(ग) काष्ठहारः काष्ठानि नीत्वा कुत्र गतवान्?
(घ) वृक्षाः कस्य शुद्धीकरणाय भवन्ति?
उत्तर:
(क) वृक्षध्वनि
(ख) खिन्नमनः
(ग) आपणं
(घ) वायोः

(2) पूर्णवाक्येन उत्तरत
(क) वृक्षः किमर्थं दुःखितः आसीत्?
(ख) वृक्षाणां कर्तनेन केषां महत्त्वं विलुप्तं भविष्यति?
उत्तर:
(क) वृक्षः समीपस्थं कर्तितं वृक्षं दृष्ट्वा दुःखितः आसीत् यतः एकः काष्ठहारः काष्ठाय तस्य मित्रस्य शरीरम् अच्छिनत्। छेदनेन वृक्षस्य शरीरे व्रणान् दृष्ट्वा अतीव दुःखितः आसीत्।
(ख) वृक्षाणां कर्तनेन वसन्तादीनां ऋतूनां महत्त्वम् विलुप्तम् भविष्यति।

(3) यथानिर्देशम् उत्तरत
(क) ‘वृक्षः समीपस्थं वृक्षं दृष्ट्वा रुदन्निव वदति’-अस्मिन् वाक्ये किं विशेषणपदम्?
(ख) ‘आश्रिताः’ इति पदस्य कृते किं विलोमपदम् अनुच्छेदे प्रयुक्तम्?
(ग) ‘विलोक्य’ इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?
(घ) ‘ह्यः एकः काष्ठहारः मम मित्रस्य शरीरमच्छिनत्’-अत्र किम् अव्ययपदम्।
उत्तर:
(क) समीपस्थं
(ख) निराश्रिताः
(ग) दृष्ट्वा
(घ) ह्यः

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘वृक्षकर्तनं न करणीयम्/वृक्षाः संरक्षणीयाः’।

प्रश्न 10
विज्ञानस्य नवीनेषु आविष्कारेषु एकः अतीव उपयोगी आविष्कारः अस्ति-‘चलभाषियन्त्रम् ( मोबाइल अस्य मख्यं प्रयोजनमासीत दरवर्तिना केनापि जनेन सह वार्तालापः सकरः भवेत् इति। परमद्यत्वे तु चलभाषियन्त्रं लघुसङ्गणकमिव वर्तते। एवं प्रतीयते यत् जनाः हस्ते एकं सम्पूर्ण जगत् एव नयन्तः गच्छन्ति। अनेन ते न केवलं वार्ता कुर्वन्ति अपितु वार्तया सहैव वक्तारं साक्षात् पश्यन्त्यपि ईमेल-फेसबुक-व्हाट्सएप-माध्यमैः एतदतीव सुकरं संदेशवाहकमपि। अस्य माध्यमेन गमनागमनार्थं शीघ्रमेव वाहनं प्राप्य जनाः सरलतया स्वगन्तव्यं प्राप्नुवन्ति। न केवलमेतदेव अपितु एतत् यन्त्रं मनोरञ्जनकारि अपि। बालाः, वृद्धाः युवानः अस्य माध्यमेन विविधक्रीडाभिः मनोरञ्जनक्षमाः भवन्ति। परमेतदपि विचारणीयं यदस्य अधिकाधिकप्रयोगः हानिकरः भवति। ‘अति सर्वत्र वर्जयेत्’ इत्यनुरूपेण अस्य यथावश्यकं प्रयोगः एव करणीयः।

प्रश्ना :
(1) एकपदेन उत्तरत
(क) किम् अतीव सुकरं सन्देशवाहकम्?
(ख) जनाः वार्तया सह साक्षात् कं पश्यन्ति?
(ग) किं प्राप्य जनाः स्वगन्तव्यं प्राप्नुवन्ति?
(घ) अस्य अधिकाधिकप्रयोगः कीदृशः भवति?
उत्तर:
(क) चलभाषियन्त्रम्
(ख) वक्तारम्
(ग) वाहनं
(घ) हानिकरः

(2) पूर्णवाक्येन उत्तरत
(क) अस्य मुख्यं प्रयोजनं किमासीत्?
(ख) अस्य प्रयोगेण के कथं च मनोरञ्जनक्षमाः भवन्ति?
उत्तर:
(क) अस्य मुख्यं प्रयोजनम् आसीत् यत् दूरवर्तिना केनापि जनेन सह वार्तालापः सुकरः भवेत्।
(ख) अस्य प्रयोगेण बालाः वृद्धाः युवानः च विविधक्रीडाभिः मनोरञ्जनक्षमाः भवन्ति।

(3) यथानिर्देशम् उत्तरत
(क) ‘लब्ध्वा’ इत्यर्थे किं पदं गद्यांशेऽस्मिन् प्रयुक्तम्?
(ख) ‘केनापि जनेन सह वार्तालापः सुकरः भवेत्’ इत्यत्र किं विशेषणपदम्?
(ग) ‘अस्य यथावश्यकं प्रयोगः एव करणीयः’ इति अत्र किं क्रियापदम्?
(घ) ‘चलभाषियन्त्रं लघुसङ्गणकमिव वर्तते’ इति अत्र किम् अव्ययपदम्।
उत्तर:
(क) प्राप्य
(ख) सुकरः
(ग) करणीयः
(घ) इव

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘चलभाषियन्त्रम्’।

AI CONTENT END 2 <rdf:RDF xmlns:rdf="http://www.w3.org/1999/02/22-rdf-syntax-ns#" xmlns:dc="http://purl.org/dc/elements/1.1/" xmlns:trackback="http://madskills.com/public/xml/rss/module/trackback/"> <rdf:Description rdf:about="https://www.LearnCBSE.online/abhyasvan-bhav-sanskrit-class-9-solutions-chapter-1/" dc:identifier="https://www.LearnCBSE.online/abhyasvan-bhav-sanskrit-class-9-solutions-chapter-1/" dc:title="Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम्" trackback:ping="https://www.LearnCBSE.online/abhyasvan-bhav-sanskrit-class-9-solutions-chapter-1/trackback/" /> </rdf:RDF>

Filed Under: CBSE

  • NCERT Solutions
    • NCERT Library
  • RD Sharma
    • RD Sharma Class 12 Solutions
    • RD Sharma Class 11 Solutions Free PDF Download
    • RD Sharma Class 10 Solutions
    • RD Sharma Class 9 Solutions
    • RD Sharma Class 8 Solutions
    • RD Sharma Class 7 Solutions
    • RD Sharma Class 6 Solutions
  • Class 12
    • Class 12 Science
      • NCERT Solutions for Class 12 Maths
      • NCERT Solutions for Class 12 Physics
      • NCERT Solutions for Class 12 Chemistry
      • NCERT Solutions for Class 12 Biology
      • NCERT Solutions for Class 12 Economics
      • NCERT Solutions for Class 12 Computer Science (Python)
      • NCERT Solutions for Class 12 Computer Science (C++)
      • NCERT Solutions for Class 12 English
      • NCERT Solutions for Class 12 Hindi
    • Class 12 Commerce
      • NCERT Solutions for Class 12 Maths
      • NCERT Solutions for Class 12 Business Studies
      • NCERT Solutions for Class 12 Accountancy
      • NCERT Solutions for Class 12 Micro Economics
      • NCERT Solutions for Class 12 Macro Economics
      • NCERT Solutions for Class 12 Entrepreneurship
    • Class 12 Humanities
      • NCERT Solutions for Class 12 History
      • NCERT Solutions for Class 12 Political Science
      • NCERT Solutions for Class 12 Economics
      • NCERT Solutions for Class 12 Sociology
      • NCERT Solutions for Class 12 Psychology
  • Class 11
    • Class 11 Science
      • NCERT Solutions for Class 11 Maths
      • NCERT Solutions for Class 11 Physics
      • NCERT Solutions for Class 11 Chemistry
      • NCERT Solutions for Class 11 Biology
      • NCERT Solutions for Class 11 Economics
      • NCERT Solutions for Class 11 Computer Science (Python)
      • NCERT Solutions for Class 11 English
      • NCERT Solutions for Class 11 Hindi
    • Class 11 Commerce
      • NCERT Solutions for Class 11 Maths
      • NCERT Solutions for Class 11 Business Studies
      • NCERT Solutions for Class 11 Accountancy
      • NCERT Solutions for Class 11 Economics
      • NCERT Solutions for Class 11 Entrepreneurship
    • Class 11 Humanities
      • NCERT Solutions for Class 11 Psychology
      • NCERT Solutions for Class 11 Political Science
      • NCERT Solutions for Class 11 Economics
      • NCERT Solutions for Class 11 Indian Economic Development
  • Class 10
    • NCERT Solutions for Class 10 Maths
    • NCERT Solutions for Class 10 Science
    • NCERT Solutions for Class 10 Social Science
    • NCERT Solutions for Class 10 English
    • NCERT Solutions For Class 10 Hindi Sanchayan
    • NCERT Solutions For Class 10 Hindi Sparsh
    • NCERT Solutions For Class 10 Hindi Kshitiz
    • NCERT Solutions For Class 10 Hindi Kritika
    • NCERT Solutions for Class 10 Sanskrit
    • NCERT Solutions for Class 10 Foundation of Information Technology
  • Class 9
    • NCERT Solutions for Class 9 Maths
    • NCERT Solutions for Class 9 Science
    • NCERT Solutions for Class 9 Social Science
    • NCERT Solutions for Class 9 English
    • NCERT Solutions for Class 9 Hindi
    • NCERT Solutions for Class 9 Sanskrit
    • NCERT Solutions for Class 9 Foundation of IT
  • CBSE Sample Papers
    • Previous Year Question Papers
    • CBSE Topper Answer Sheet
    • CBSE Sample Papers for Class 12
    • CBSE Sample Papers for Class 11
    • CBSE Sample Papers for Class 10
    • Solved CBSE Sample Papers for Class 9 with Solutions 2023-2024
    • CBSE Sample Papers Class 8
    • CBSE Sample Papers Class 7
    • CBSE Sample Papers Class 6
  • Textbook Solutions
    • Lakhmir Singh
    • Lakhmir Singh Class 10 Physics
    • Lakhmir Singh Class 10 Chemistry
    • Lakhmir Singh Class 10 Biology
    • Lakhmir Singh Class 9 Physics
    • Lakhmir Singh Class 9 Chemistry
    • PS Verma and VK Agarwal Biology Class 9 Solutions
    • Lakhmir Singh Science Class 8 Solutions
  • Student Nutrition - How Does This Effect Studies
  • Words by Length
  • NEET MCQ
  • Factoring Calculator
  • Rational Numbers
  • CGPA Calculator
  • TOP Universities in India
  • TOP Engineering Colleges in India
  • TOP Pharmacy Colleges in India
  • Coding for Kids
  • Math Riddles for Kids with Answers
  • General Knowledge for Kids
  • General Knowledge
  • Scholarships for Students
  • NSP - National Scholarip Portal
  • Class 12 Maths NCERT Solutions
  • Class 11 Maths NCERT Solutions
  • NCERT Solutions for Class 10 Maths
  • NCERT Solutions for Class 9 Maths
  • NCERT Solutions for Class 8 Maths
  • NCERT Solutions for Class 7 Maths
  • NCERT Solutions for Class 6 Maths
  • NCERT Solutions for Class 6 Science
  • NCERT Solutions for Class 7 Science
  • NCERT Solutions for Class 8 Science
  • NCERT Solutions for Class 9 Science
  • NCERT Solutions for Class 10 Science
  • NCERT Solutions for Class 11 Physics
  • NCERT Solutions for Class 11 Chemistry
  • NCERT Solutions for Class 12 Physics
  • NCERT Solutions for Class 12 Chemistry
  • NCERT Solutions for Class 10 Science Chapter 1
  • NCERT Solutions for Class 10 Science Chapter 2
  • Metals and Nonmetals Class 10
  • carbon and its compounds class 10
  • Periodic Classification of Elements Class 10
  • Life Process Class 10
  • NCERT Solutions for Class 10 Science Chapter 7
  • NCERT Solutions for Class 10 Science Chapter 8
  • NCERT Solutions for Class 10 Science Chapter 9
  • NCERT Solutions for Class 10 Science Chapter 10
  • NCERT Solutions for Class 10 Science Chapter 11
  • NCERT Solutions for Class 10 Science Chapter 12
  • NCERT Solutions for Class 10 Science Chapter 13
  • NCERT Solutions for Class 10 Science Chapter 14
  • NCERT Solutions for Class 10 Science Chapter 15
  • NCERT Solutions for Class 10 Science Chapter 16

: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources: Free Resources:

RD Sharma Class 12 Solutions RD Sharma Class 11
RD Sharma Class 10 RD Sharma Class 9
RD Sharma Class 8 RD Sharma Class 7
CBSE Previous Year Question Papers Class 12 CBSE Previous Year Question Papers Class 10
NCERT Books Maths Formulas
CBSE Sample Papers Vedic Maths
NCERT Library

Paraphrase: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions: NCERT Solutions

NCERT Solutions for Class 10
NCERT Solutions for Class 9
NCERT Solutions for Class 8
NCERT Solutions for Class 7
NCERT Solutions for Class 6
NCERT Solutions for Class 5
NCERT Solutions for Class 4
NCERT Solutions for Class 3
NCERT Solutions for Class 2
NCERT Solutions for Class 1

Paraphrase: Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources Quick Resources

English Grammar Hindi Grammar
Textbook Solutions Maths NCERT Solutions
Science NCERT Solutions Social Science NCERT Solutions
English Solutions Hindi NCERT Solutions
NCERT Exemplar Problems Engineering Entrance Exams

LearnCBSE Online

Telegram Twitter Reddit Discord